Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 176
________________ १७० काव्यमाला। ' अत्र मलयजरजसा विलेपनादीनां चन्द्रप्रभया सह 'अविभाव्यतां गताः' इत्यभेदप्रतीतिर्दर्शिता। स्वगुणत्यागादत्युत्कृष्टगुणस्वीकारस्तद्गुणः । यत्र परिमितगुणस्य वस्तुनः समीपवर्तिप्रकृष्टवस्तुगुणस्य स्वीकरणं स तद्गुणः । तस्योत्कृष्टगुणस्य गुणा अस्मिन्निति कृत्वा । न चेदं मीलितम् । तत्र हि प्रकृतं वस्तु वस्त्वन्तरेणाच्छादितत्वेन प्रतीयते, इह त्वनपद्भुतस्वरूपमेव प्रकृतम् । [यैत्र परिमितगुणं वस्तु तस्य समीपवर्तिप्रकृष्टवस्तुगुणखीकारं कुरुते स तद्गुणः।] वस्त्वन्तरर्गुणोपरक्ततया प्रतीयत इत्यस्त्यनयोर्भेदः । यथा ‘विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या । रत्नैः पुनर्यत्र रुचं रुचा स्वामानिन्यिरे वंशकरीरनीलैः ॥' अत्र रविरथाश्वानामरुणवर्णस्वीकारः। तस्यापि गारुत्मतमणिप्रभास्वीकार इति तद्गुणत्वम् ।, सति हेतौ तद्गुणाननुहारोऽतद्गुणः । तद्गुणप्रस्तावात्तद्विपर्ययरूपोऽतद्गुण उच्यते । इह न्यूनगुणस्य विशिष्टगुणपदार्थधर्मस्वीकारः प्रत्यासत्या न्याय्यः । यदा पुनरुत्कृष्टगुणपदार्थस'अविभाव्यतां गताः' इत्यर्थादुक्तेः ॥ स्वगुणेत्यादि । परिमितेति। स्वीक्रियमाणस्य गुणस्याभावात् । तत्संभवादेव चान्यस्य प्रकृष्टगुणत्वम् । समीपवर्तीत्यनेन गुणग्रहणे योग्यत्वमुक्तम् । अस्मिन्निति । परिमितगुणे प्रकृते । अतश्च नैतत्संज्ञामात्रम् । ननु च प्रकृष्टगुणेन परिमितगुणस्य तिरोधानान्मीलितमेवायं किं न भवतीत्याशङ्कयाह-न चेत्यादि । आच्छादितत्वेनेति । अपह्नुतिस्वरूपत्वेनेत्यर्थः । उपरक्ततयेति । विशिटत्वेनेत्यर्थः । तस्येति । अरुणवर्णस्य । अपिः समुच्चये । यथा वा-'इन्दयश्चन्दनमिन्दुवक्रा चैत्रस्तवेत्यादिसहायसंपत् । वपुश्च शृङ्गारमयं स मन्ये संतापकस्त्वं हरवतियोगात् ॥' अत्र हरवद्विगुणस्य संतापकत्वस्य स्वीकारः ॥ सतीत्यादि । तद्विपर्ययेति । अत्र हि प्रत्यासत्यान्यगुणग्रहणमुक्तम् । इह तु योग्यतायामपि न तद्रहणम् । प्रत्यासत्त्येति । विप्रकृष्टस्य ह्यन्यगुणस्वीकारानुपपत्तिः । यदा त्वेतन भवति तदाय १. 'तद्गुणम्'ख. २. 'समीपवर्तिप्रकृष्टगुणस्य वस्तुनः समीपवर्तिप्रकृष्टवस्तुगुणस्य स्वीकरणम्' क. ३. यत्रेत्यादि कोष्टान्तर्गतः पाठः ख-पुस्तके नास्ति. ४. 'गुणेऽपरक्त' ख.

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218