Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 188
________________ १८२ काव्यमाला | नाप्ययं शब्दानाकुलत्वहेतुकाज्झगित्यर्थसर्पणात्प्रसादाख्यो गुणः । तस्य हि स्फुटास्फुटोभयवाच्यगतत्वेन झटिति समर्पणं रूपम् । अस्य झटिति समर्पकस्य सतः स्फुटत्वेन प्रतीतौ खरूपप्रतिलम्भः । तस्मादयं सर्वोत्तीर्ण एवालंकारः । लक्ष्ये चायं प्रचुरप्रयोगो दृश्यते । यथा 'मुनिर्जयंति योगीन्द्रो महात्मा कुम्भसंभवः । येनैकचुलुके दृष्टौ दिव्यौ तौ मत्स्यकच्छपौ ॥' यथा वा हर्षचरितप्रारम्भे ब्रह्मसदसि वेदस्वरूपवर्णने । तत्र हि प्रत्यक्षमेव स्फुटत्वेन तदीयं रूपं दृश्यते । एवं तत्रैव मुनिक्रोधवर्णने, पुलिन्दवर्णनादौ ज्ञेयम् । अयं तु तत्र विचारलेशः संभवति - इह क्वचिद्वर्णनीयस्य वर्णनावशादेव प्रत्यक्षायमाणत्वम् । क्वचित्प्रत्यक्षायमाणस्यैव वर्णनम् । आद्यो यथोदाहृतं प्राक् । द्वितीयो यथा 'अनातपत्रोऽप्ययमत्र लक्ष्यते सितातपत्रैरिव सर्वतो वृतः । अचामरोऽप्येष सतेव वीज्यते विलासबालव्यजनेन कोऽप्ययम् ॥' इति । भाविकरसवदलंकाराभ्यामस्या भेदो भाविकप्रसङ्गे निर्णेष्यते इति यत्प्रागुक्तं तन्निर्वाहितम् । इदानीं च प्रकृतमेवाह - नाप्ययमित्यादि । झगित्यर्थसमर्पणं प्रसादः, झगिति समर्पितस्यार्थस्य स्फुटत्वेन प्रतीतिर्भाविकमित्यनयोर्महान्भेदः । एतदेवोपसंहरति — तस्मादित्यादि । एतच्च नास्माभिरस्थान एवाभिनिविष्टमित्याह - लक्ष्य इत्यादि । तत्रैवेति । हर्षचरिते । तत्र क्रोधमुनिवर्णनं प्रारम्भ एव स्थितम् । पुलिन्दवर्णनं पुनरष्टमोच्छासारम्भे स्थितमिति तत एव स्वयमवधार्यम् । इह तु ग्रन्थविस्तरभयान्न लिखितम् । अतीतानागतयोः सूत्रितेऽपि प्रत्यक्षायमाणत्वे देशादिविप्रकृष्टानां प्रत्यक्षायमाणत्वमुदाहरता ग्रन्थकृतातीतानागतत्वस्य विप्रकर्षमात्रसारत्वं सूचितम् । तच्च देशकालस्वभाववि/ प्रकृष्टानामविशिष्टमित्येतदुदाहृतम् । तत्रागस्त्यमुनेर्देशविप्रकृष्टत्वम् । अनागतस्य तु यथा। ' क्षिप्तोत्क्षिप्ताखिलखुरपुटाहन्यमानाद्रिरौद्रध्वनत्रस्यत्सुरवरनमस्कारवाग्दत्तकर्णः । पाणिस्पर्शाद्वहनतुरगं प्रेरयन्म्लेच्छजातिं जेष्यत्येष त्रिभुवनविभुः कार्करूपेण विष्णुः ॥ एवं चिरंतनोक्तनीत्या विचार्य पुनरपि स्वोपज्ञं कंचिद्विचारमाह - अयमित्यादिना । संभवतीति । न पुनः केनापि दृष्ट इति भावः । यथोदाहृतमिति । मुनिर्जयतीत्या १. 'यत्र' क. २. 'ध्वानभ्राम्यत्' क.

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218