Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
अलंकारसर्वस्वम् ।
२०३ 'मुरारिनिर्गता नूनं नरके परिपन्थिनी ।
तवापि मूर्ध्नि गङ्गेव चक्रधारा पतिष्यति ॥' अत्र मुरारिनिर्गतेति साधारणविशेषणहेतुका उपमा, नरकपरिपन्थिनीति श्लिष्टविशेषणसमुत्थश्चोपमाप्रतिभोत्पत्तिहेतुः श्लेषश्चैकस्मिन्निवशब्दे प्रविष्टौ, तस्योभयोपकारित्वात् । अत्र यथार्थश्लेषेण सहोपमायाः संकरस्तथा शब्दश्लेषेणापि सह दृश्यते यथा
'सत्पूरुषद्योतितरङ्गशोभिन्यमन्दमारब्धमृदङ्गवाये ।
उद्यानवापीपयसीव यस्यामेणीदृशो नाट्यगृहे रमन्ते ॥' अत्र पयसीव नाट्यगृहे रमन्ते इत्येतावतैव समुचितोपमा निष्पन्ना । सत्पूरुषद्योतितरङ्ग इति शब्दश्लेषेण सहैकस्मिन्नेव शब्दे शब्दालंकारयोः पुनरेकवाचकानुप्रवेशेन संकरः पूर्वमुदाहृतः । 'राजति तटीयम्' इत्यादिना । एकवाचकानुप्रवेशेनैव चात्र संकीर्णत्वम् ।
इह ह्येकानुप्रविष्टयोरलंकारयोनिश्चितत्वेन निबन्धनम् । एकवाचकानुप्रविष्टत्वेन चालं. कारयोः संसृष्टत्वेन चारुतातिशयोपजन इति नैवैकहेतुकत्वेन संकरोपमतयोरिवेत्युक्त्या नास्याभावो वाच्यः । न हि यमकयोः संसृष्टत्वेनैवावभासोऽस्तीति यथोक्तमेव युक्तम् । अर्थश्लेषेणेति । नरकशब्दस्य दानवनिरयार्थकत्वात् ।द्योतितरङ्गेति शब्दस्य सभङ्गत्वा. च्छब्दश्लेषः । न चास्योदाहरणद्वयमेतद्युक्तम् । उपमाप्रतिभोत्पत्तिहेतुकस्य श्लेषस्यैवात्रालंकारत्वात् । उपमा हि श्लेषस्य हेतुत्वेनैव गता। तां विना तस्या अनुत्थानात् । अतश्च श्लेष एवात्र प्राधान्येनालंकारः । एवं न संकरः, एकस्यैवात्रालंकारस्य स्थितेः । तस्य च द्विप्रभृतीनां संसृष्टतायामुक्तत्वात् । उदाहरणान्तरं यथा-'अङ्के न्यस्योत्तमाङ्गं प्लवगबलपतेः पादमक्षस्य हर्तुः कृत्वोत्सङ्गे सलीलं त्वचि कनकमृगस्याङ्गमाधाय शेषम् । बाणं रक्षःकुलप्नं प्रगुणितमनुजेनादरात्तीक्ष्णमक्ष्णः कोणेनैवेक्षमाणस्त्वदनुजवदने दत्त. कर्णोऽयमास्ते ॥' अत्रेडगीश्वराणां स्वभाव इति स्वभावोक्तिः, दाशरथेश्च प्रत्यक्षायमाणवमिति भाविकमित्येकस्मिन्नेव वाचकेऽलंकारद्वयमनुप्रविष्टमित्ययं संकरः । अत्र च भा. विकस्वभावोक्त्योरुपकार्योपकारकभावेनाङ्गाङ्गित्वेऽप्येकवाचकानुप्रवेशकृतो वैचिच्यातिशयः प्रधानतया प्रतीयत इत्येतदुदाहरणत्वम् । अङ्गाङ्गिभावश्च भिन्नवाचकालंकारगतत्वेन लब्धावकाशोऽस्ति । अतो 'राजति तटीयम्' इत्यादावेकवाचकानुप्रवेशोऽपि निरवकाश इति

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218