Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 208
________________ २०२ 'काव्यमाला | अत्रावतंसनं प्रसूनेष्वनुगुणमिति रूपकपरिग्रहेण साधकं प्रमाणम् । बाधकं यथा 'शरदीव प्रसर्पन्त्यां तस्य कोदण्डटांकृतौ । विनिद्रजृम्भितहरिर्विन्ध्योदधिरजायंत ॥' अत्र विन्ध्य उदधिरिवेत्युपमापरिग्रहे विनिद्रजृम्भितहरिरिति साधारणं विशेषणं बाधकं प्रमाणम् । 'उपमितं व्याघ्रादिभिः सह सामान्याप्रयोगे' इति वचनात् । उपमासमासे प्रतिकूलत्वात् । अतश्च पारिशेष्याद्रूपकपरिग्रहः । न तु शरदीवेत्युपमात्रोपमासाधकत्वेन विज्ञेया । न ह्याशेपेन पञ्चाशत्सिद्धिः । न ह्येकेनालंकारेणापक्रान्तेन निर्वाह: कर्तव्य इति राजाज्ञैषा । नापि धर्मसूत्रकारवचनम् । नाप्येष न्यायः । उत्तरोत्तरसाम्यप्रकर्षविवक्षणे प्रक्रान्तोपमापरित्यागेन रूपकनिर्वाहस्योचितत्वात् । विपर्ययस्तु दुष्ट एव । यथा - 'येनेन्दुर्दहनं विषं मलयजं हारः कुठारायते । तस्मात्प्रकृते सामान्यप्रयोगे उपमापरिग्रहे बाधक इति मयूरव्यंसकेनाकृतिगणत्वाद्रूपकसमाश्रयेण रूपकमेव बोद्धव्यम् । एवं 'भाष्याब्धिः कातिगम्भीरः' इत्यादौ द्रष्टव्यम् । साधकबाधकाभावे तु संदेहसंकरः । यथोदाहृतम् | तृतीयस्तु प्रकार एकवाचकानुप्रवेशलक्षणः । यत्रै कस्मिन्वाचकेऽनेकालंकारानुप्रवेशः, न च संदेहः । यथा साधारणमिति । सामान्यप्रयोगे हि विन्ध्य उदधिरेवेत्यसमास एव स्यात् । यथा - पुरु० षोऽयं व्याघ्र इव शूर इति । अतश्चेति । उपमाया बाधकप्रमाणसंभवादप्रवृत्तेः । पारिशेव्यादिति । न पुनः साधकप्रमाणसंभवादित्यर्थः । उचितत्वादिति । रूपकनिर्वाहेण साम्यस्याधिक्येन प्रवृत्तिः। विपर्यय इति । रूपकोपक्रमेणोपमा निर्वाहो दुष्ट इति साम्यलाघवेन प्रतीतेः । 'स्वेच्छाचारिणि यत्पुरा प्रियसखीवाचस्त्वया नादृता यत्कल्याणपराङ्मुखि प्रियतमः पादानतो नेक्षितः । तस्येदं हरिणाक्षि दुर्नयतरोरद्यापि बालं फलम् ॥' इति चास्य पादत्रयी । एवं चाधिकप्रकर्षालंकारोपक्रमेण तत्प्रकर्षालंकारैर्निर्वाहो न कार्य इत्यप्यनेन सर्वालंकारशेषत्वेनोक्तम् । प्रकृत इति । शरदीवेत्यादौ । द्रष्टव्यमिति । उपमाया बाधकत्वं प्रति गम्भीरत्वस्य सामान्यस्य हि प्रयोगे उपमासमासे बाधक इति रूपकपरिग्रह एव युक्तः । उदाहृतमिति । 'यः कौमारहरः' इत्यादिना । न च संदेह इति । संदेहसत्कारे यद्यप्येकवाचकत्वमस्ति, तथापि तत्र संदिह्यमानत्वेन चमत्कारोऽस्तीति ततोऽस्य वैलक्षण्यम् ।

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218