Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
काव्यमाला |
'यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपास्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः । सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ॥' अत्र विभावनाविशेषोक्त्योः संदेहसंकरः । तथा ह्युत्कण्ठाकारणाभावे उत्कण्ठाया उत्पत्तौ विभावना । स च कारणाभावो 'यः कौमारहरः ' इत्यादिना कारणविरुद्धमुखेन प्रतिपादितः । तथा च 'यः कौमारहरः ' इत्याद्युत्कण्ठाकारणसद्भावेऽपि अनुत्कण्ठाया अनुत्पत्तौ विशेषोक्तिः । सा चानुत्पत्तिः 'समुत्कण्ठते' इति विरोधोत्पत्तिमुखेनोक्ता । अत एव द्वयोरप्यस्फुटत्वमन्यत्रोक्तम् । न चानयोः प्रत्येकं साधकबाधकप्रमाणयोग इति संदेहसंकरोऽयम् । यथा वा
―
२००
'यद्वचन्द्रे नवयौवनेन श्मश्रुच्छलादुल्लिखितश्चकास्ति । उद्दामरामादृढमानमुद्राविद्रावणो मन्त्र इव स्मरस्य ॥'
अत्र वक्रं चन्द्र इवेति किमुपमा, उत वक्रमेव चन्द्र इति किं रूपकमिति संशयः । उभयथापि समासस्य भावात् । ' उपमितं व्याघ्रादिभिः ' इत्युपमासमासः । व्याघ्रादीनामाकृतिगणत्वात् । मयूरव्यंसकादित्वात्तु रूपकसमासः । मयूरव्यंसकादीनामाकृतिगणत्वात् । न चात्र क्वचित्साधकबाधकप्रमाणसद्भाव इति संदेहसंकरः ।
दयति - तथा हीत्यादिना । उत्कण्ठाकारणाभाव इति । कौमारहरवराद्यसंनिधानरूपस्य कारणस्याभाव इत्यर्थः । विरुद्धमुखेनेति । तत्संनिधानद्वारेणेत्यर्थः । अत एवेति । द्वयोरपि विरुद्धमुखेनोपनिबन्धात् । अन्यत्रेति । काव्यप्रकाशादौ । उभयथेति । उपमारूपकत्वेनेत्यर्थः । चन्द्रशब्दस्याकृतिगणत्वाद्वणद्वयेनापि हि स्वीकृतत्वमिति भावः । क्वचिदिति । उपमायां रूपके वा । न चैतदलंकारसारकारादीनां मतम्, अलंकाराणां संदेहायोगात् । तथा हि स्थाणुर्वा पुरुषो वेति संदेहः कस्यचिदेव कदाचिद्भवति, न तु सर्वदैव सर्वेषां संनिकृष्टानां तदैवानन्तरं त्वन्येषामपि निश्चयोत्पादनात् । सर्वदा सर्वत्र सर्वान्प्रति चालंकारलक्षणं प्रणयनम् । तथात्वे च संदेहोऽयुक्तः, तस्य नियतदेशकालप्र

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218