Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 204
________________ १९८ काव्यमाला। श्रत्वमङ्गाङ्गिभावेन संशयेन, एकवाचकानुप्रवेशेन च । त्रिधाभवत्संकर त्रिभेदमुत्थापयति । क्रमेण यथा 'अङ्गुलीभिरिव केशसंचयं संनियम्य तिमिरं मरीचिभिः । कुङ्मलीकृतसरोजलोचनं चुम्बतीव रंजनीमुखं शशी ॥' अत्राङ्गुलीभिरिवेत्युपमा, सैव सरोजलोचनमित्यस्या उपमायाः प्रसाधिका । रजनीमुखमिति श्लेषमूलातिशयोक्तिः । प्रारम्भवदनाख्ययोर्मुख्ययोरभेदातिशयात् । अत एव तयोरङ्गाङ्गिभावः । एवं च वाक्योक्तसमासोक्तिः । उपमाश्लेषानुगृहीता चातिशयोक्तिरुत्प्रेक्षया 'चुम्बतीव' इति प्रकाशिताया अनुग्राहिका । तबलेन तस्याः समुत्थानात् । सा च समुत्थापिता समुत्थापकानां चमत्कारितानिबन्धनमित्यस्त्यङ्गाङ्गिभावः । यथा वा 'त्रयीमयोऽपि प्रथितो जंगत्सु यद्वारुणी प्रत्यगमद्विवस्वान् । मन्येऽस्तशैलात्पतितोऽत एव विवेश शुद्ध्यै वडवाग्निमध्यम् ॥' अत्र प्रथमार्धे विरोधोत्पत्तिहेतुः श्लेषः । दर्शनान्तरे तु विरोधश्लेषौ द्वावलंकारौ तदनुगृहीता द्वितीयेऽर्धे मन्येपदप्रकाशितोत्प्रेक्षा । अतश्चाङ्गाङ्गिभावः । तथा ह्यत्र यत्कारणमुत्प्रेक्षते तत्र विरोधश्लेषानुप्रवेशः । यच्चात्र कार्यमुत्प्रेक्षानिमित्तं तत्र पतितत्वाग्निप्रवेशौ वस्तुस्थित्या अन्यथास्थितावपि अन्यथाभूताभ्यां ताभ्यामभेदेनाध्यवसितो ज्ञेयौ । तेनात्राङ्गाङ्गिभावः संकरः । न च विरोधोत्पत्तिहेतौ श्लेषे श्लेषस्य विरोधेन सहाङ्गाङ्गिभावः संधिकेति।आनुगुण्यकारित्वेनाङ्गमित्यर्थः। श्लेषमूलेति। श्लेषहेतुकेत्यर्थः । अत्र च यथाङ्गाङ्गितया संकरस्तथा पूर्वमेवोक्तम् । अत एवोपमाद्वयापेक्षयैव तयोरङ्गाङ्गिभाव इत्युपसंहारः। श्लेषानुगृहीतेति । श्लेषमन्तरेणास्या अनुत्थानात् । तदलेनेति । तेषामुपमादीनां बलेनोपकारकत्वेनेत्यर्थः । समुत्थानादिति । उपकार्यत्वेन । उदाहरणान्तरोपादानं दावाप्ति(?)प्रदर्शनपरम् । श्लेष इति। औद्भटानामिति शेषः।द्वावलंकाराविति। हेतुहेतुमद्रूपावित्यर्थः । श्लेषमन्तरेण। विरोधस्यानुत्थानात् । तदनुगृहीतेति । श्लेषमूलविरोधोपकृतेत्यर्थः। अङ्गाङ्गिभावमेव विभजति तथा हीत्यादिना। कार्यमिति। पतित्वामिप्रवेशलक्षणम् । एतच्चोत्प्रेक्षानुगुण्येन प्रसङ्गादिहोक्तम् । तेनेति । उत्प्रेक्षाविरोधोपकृतत्वेन । ननु विरोधोत्प्रेक्षयोर्यद्वदङ्गाङ्गिभावेन संकरस्तद्वदतिशयोक्त्यापि सह तस्या विरोधश्लेषयोश्च किं संकर उत नेत्याशङ्कयाह-न चेत्यादि । एतच्चोद्भटमतानुसारश्लेषस्य प्राधा.

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218