Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
अलंकारसर्वस्वम् ।
२०१ यत्र तु कस्यचित्परिग्रहे साधकं बाधकं वा प्रमाणं विद्यते तत्र नियतपरिग्रहः । तत्रानुकूल्यं साधकम्, प्रातिकूल्यं बाधकम् । तत्र साधकं यथा
'प्रसरहिन्दुनादाय शुद्धामृतमयात्मने ।
नमोऽनन्तप्रकाशाय शंकरक्षीरसिन्धवे ॥ अत्र शंकर एव क्षीरसिन्धुरिति रूपकस्यामृतमयत्वं साधकम् । तस्य शंकरापेक्षया क्षीरसिन्धावनुकूलत्वात् । उपमायास्तु न बाधकम् । शंकरेऽपि तस्योपचरितस्य संभवात् । यथा वा
'एतान्यवन्तीश्वरपारिजातजातानि तारापतिपाण्डुराणि । संप्रत्यहं पश्यत दिग्वधूनां यशःप्रसूनान्यवतंसयामि ॥'
मागतत्वात् । संदेहोऽपि पर्यवसानेऽवश्यमेकतरपक्षाश्रयणम्, उत्तरकालं बाधकप्रत्ययोल्लासात् । इह च संदेहेऽप्युत्तरकालं यद्येकतरालंकाराश्रयणं तत्स एवालंकारः स्यात्, तस्यैव वाक्यार्थत्वेन प्ररोहात् । वाक्यार्थीभाव एव त्वलंकाराणां स्वरूपप्रतिष्ठापकं प्रमाणम् । न चोभयोरपि वाक्यार्थीभावो विप्रतिषेधात् । संदिग्धश्च वाक्यार्थों दोष इत्यविवादः । न च लक्ष्येऽपि तथाभावः, तथा ह्याद्योदाहरणे विभावनाया एव निश्चयः । विरुद्धमुखेनोत्कण्ठाकारणाभावेऽपि प्रतिपन्ने तथापि 'चेतः समुत्कण्ठते' इत्युत्कण्ठोदयस्यैव कार्यस्य वाक्यार्थत्वेन प्ररोहात् । अत एवानुत्कण्ठोत्पत्तिरविवक्षितेति विशेषोक्तेधि इति विभावनाया एव वाक्यार्थीभावः । उत्तरोदाहरणे रूपकस्यैव निश्चयः । यतोऽत्रान्यप्रयोजनयोर्द्वयोः समासयोरेकत्र युगपत्प्राप्तेस्तुल्यबलत्वाद्विप्रतिषेधः । ततश्च 'विप्रतिषेधे परं कार्यम्' इति परत्वाद्रूपकसमासप्रवृत्तिः । एतदेव रूपकस्य साधनं प्र. माणम् । अत एवात्र यदन्यैः 'अबाधेन गतौ संभवन्त्यां बाधगतिरप्रामाणिका' इति न्यायालक्षणात्मकरूपकसमासबाधकतयाश्रयात्मन उपमासमासस्य प्रवृत्तिरित्युपमायाः साधकप्रमाणसद्भावोऽस्तीत्युक्तम् । तदयुक्तम् । भवन्मते च समासां प्रायशो लक्षणपरत्वादुपमासमासस्यापि लक्षणात्मकत्वमित्यबाधेन गतेरसंभवादुपमाया अपि नास्ति बा. धकप्रमाणसद्भावः । अथोपमायां लक्षणा रूपके तु लक्षितलक्षणेति न द्वयोः पक्षयोस्तुल्यत्वमिति चेत् , नैतत् । एवमप्यबाधेन गतेरसंभवस्य तादवस्थ्यात् । अयं हि बाधगतेरेव प्रतीयते तत्र तत्समास एव कार्य इत्याह-यत्र त्वित्यादि । एतदेव दर्शयति-तत्रेत्यादिना । न बाधकमिति । न पुनः साधकमपीत्यर्थः । बाधकत्वाभावमात्रेण साधक. त्वानुपपत्तेः । तथात्वे ह्यत्रापि संदेहसंकरः स्यादिति भावः। यथा वेति । पूर्वत्र संकरेऽप्युपचरितस्यामृतमयत्वस्य संभवात्संदेहभ्रमः कस्यचित्स्यादित्यस्योदाहरणस्य पुनरुपादानम् ।
२६

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218