Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 203
________________ अलंकारसर्वस्वम् । १९७ अत्रोपमोप्रेक्षयोर्विजातीययोः संसृष्टिः । उभयसंसृष्टिर्यथा 'आनन्दसुन्दरपुरंदरमुक्तमाल्यं मौलौ हठेन निहितं महिषासुरस्य । पादाम्बुजं भवतु मे विजयाय मञ्च ___ मञ्जीरशिञ्जितमनोहरमम्बिकायाः ॥' अत्रोपमानुप्रासयोः संसृष्टिः पादाम्बुजमित्यत्र ह्युपमाया मञ्जीरशिञ्जितयोगो व्यवस्थापकं प्रमाणम् । स हि रूपके प्रतिकूलः । पारिशेष्यादुपमा प्रसादयति । तदेवं संसृष्टिस्त्रिधा निर्णीता । अधुना क्षीरनीरन्यायेन संकर उच्यतेक्षीरनीरन्यायेन तु संकरः। मिश्रत्व इत्येव । अनुत्कटभेदत्वमुत्कटभेदत्वं च संकरः । तच्च मिडिमादिवाक्यादिवढूषणमेव तर्हि ॥ अथान्वयोऽस्त्येव परस्परं तद्गुणप्रधानत्वमवश्यमेष्यम् । तदा न संसृष्टिकथा गुणस्य पराङ्गतायां खलु संकरः स्यात् ॥ एकत्र चेदङ्गिनि संगतं स्यायं तदन्योन्यसमीलनेन । न संकरो नापि न वा गुणत्वे कार्यान्तरोत्पादनशक्तियोगात् ॥' इत्याद्युपेक्षणीयमेव । न चात्रायं चालंकार इत्यार्थोऽलंकारसमुच्चय इति वाच्यम् । धर्मयोगपद्यमन्यस्यापि तत्करत्वं च समुच्चय इत्युक्त्या भवन्मतेऽप्यलंकारयौगपद्यस्य तल्लक्षणत्वाभावात् । तथात्वाभ्युपगमे चायं नाम्नि विवादः। एवं हि संसृष्टया किमपराद्धम् । 'अत्र चोद्यं करिष्यामि' इत्याशयेन सजातीययोरुपमयोः संसृष्टिरित्यशुद्धं पठित्वा यदन्यैरुक्तं तदुपेक्ष्यमेव । अत्र हि विजातीययोरुपमोत्प्रेक्षयोः संसृष्टिरिति सर्वत्रैव सुस्पष्टः पाठः । उत्प्रेक्षयोरिति । प्रथमार्धगतयोः । यद्यपि चानयोद्वितीयार्धगतयाप्युपमया संसर्गे संसृष्टिरेव, तथापि विजातीययोरुपमोत्प्रेक्षयोरुदाहृतत्वात्सजातीयाभिप्रायेणैवमुक्तम् । नाप्यत्रोत्प्रेक्षाद्वयमुपमाहेतुभूतमिति वाच्यम् । त्रयाणामप्यलंकाराणां वाक्यार्थीभूतं तमोबाहुल्यं प्रत्यङ्गत्वात् । उभयसंसृष्टिरिति । अनुप्रासोपमयोः शब्दार्थालंकारत्वात् । व्यवस्थापकमिति । मञ्जीरशिञ्जितयोगस्य पादगतत्वेनौचित्यात् । प्रतिकूल इति । अम्बुजस्य मञ्जीरशिञ्जितायोगात् । पारिशेष्यादिति । उपमारूपकाभ्यामन्यस्याप्राप्तेः । एतदेवोपसंहरति-तदेवमित्यादि । विधेति । यद्यपि सजातीयविजातीयत्वेनान्यदप्यस्याः संभवति भेदद्वयम्, तथापि तदुद्दिष्टस्यैवान्तर्भवतीति यथोक्त एवायमुपसंहारः ॥ इदानीं संकरमवतारयति-अधुनेत्यादि । तदेवाहक्षीरेत्यादि । तदिति । यथोक्तरूपम् । त्रिभेदमिति । अङ्गाङ्गिभावादिना। प्रसा१. 'ते' क.

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218