Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
अलंकारसर्वस्वम् ।
१८१
इह च लोकोत्तराणां वस्तूनां स्फुटतया ताटस्थ्येन प्रतीतौ कचित्तु लौ - किकानामपि वस्तूनां स्फुटत्वेन भाविकस्वभावोक्त्योः समावेशः स्यात् । न च हृदयसंवादमात्रेण स्वभावोक्तिरसवदलंकारयोरभेदः । वस्तुसंवादरूप - त्वात्स्वभावोक्तेः । चित्तवृत्तिसमाधिरूपत्वाच्च रसवदलंकारस्य । उभयसं-, वाददर्शनेऽपि समावेशोऽपि घटते । यत्र वस्तुगतसूक्ष्मधर्मवर्णनं स्यात्तत्र स्वभावोक्तिः, अन्यत्र तु रसवदलंकार एव ।
.
हस्ते रत्नदीपाञ्जघृक्षतः । दृष्ट्वा हा हेति संभ्रान्ता धात्री चेटैर्विहस्यते ॥' अत्र धात्रीणामीयं स्वभाव इति वस्तुनिर्दिष्टो हृदयसंवादः । यथा वा - ' यदास्वाद्यं सीता वितरति तदग्रे स्वगृहिणे सुमित्रापुत्राय प्रणिहितविशेषं तदनु च । यदामं यत्क्षामं यदनतिरसं यच्च विरसं फलं वा मूलं वा रचयति तु तेन स्वमशनम् ॥' अत्रेदृगेव गृहिणीनां स्वभाव इति संवादः । स्फुटतयेति । पुरःस्फुरद्रूपतया । सा च प्रतीतिर्यथा—'निमीलितस्य पूर्णेन्दोः सुधायां पङ्किलाङ्गुली । यत्र मृत्युजितः पादौ भाव्येते भावितैः पुरः ॥' यथा च'दर्भाङ्कुरेण चरण: क्षत इत्यकाण्डे तन्वी स्थिता कतिचिदेव पदानि दैत्वा । आसीद्विवृत्त - वदना च विमोचयन्ती शाखासु वल्कलमसक्तमपि द्रुमाणाम् ॥' अत्र पादयोः शकुन्तलायाश्च शुद्धैव प्रत्यक्षत्वेन प्रतीतिः । ननु च यत्र स्वभावोक्तावपि प्रत्यक्षतया प्रतीतिस्तत्र किमित्याशङ्कयाह — क्वचिदित्यादि । समावेश इति । संसृष्टिरूपः संकररूपो वा । स तु यथा—' हेरम्भोऽत्र हरीश्वरे नखमुखैः कण्डूयमाने गलं कुर्वन्युच्छविवर्तनां निविरतो रोमन्थलीलावितात् । संमीलन्नयने विसंस्थुललसत्सास्नं नतोन्नामितग्रीवं निश्चलकर्णमीश्वरबलीवर्दः सुखं मन्यते ॥' अत्र वृषभस्य पुच्छविवर्तनादि सूक्ष्मधर्मवर्णनेन स्वभावोक्तिः, प्रत्यक्षायमानत्वेन भाविकमित्यनयोः समावेशः । स्वभावोक्तेरपि रसवदलंकारात्प्रसङ्गेन भेदं दर्शयति- न चेत्यादिना । हृदयसंवादो हि वस्तुचित्तवृत्तिगतत्वेन द्विविधः । तत्र स्वभावोक्तौ वस्तुसंवादः प्रदर्शितः । चित्तवृत्तिसंवादस्तु यथा - ' - 'चन्द्रांशुस्मेरधम्मिल्लमल्लि कानां प्रियं प्रति । सौधेषु नीतं रामाणां यत्रा लिभिरनूद्यते ॥' अत्र प्रियाभिलाषिणी नायिकाचित्तवृत्तिः सचेतसां स्वचित्तवृत्त्यभेदेन संवदतीति तत्संवादः । यत्र द्विविधोऽपि संवादस्तत्र किं प्रतिपत्तव्यमित्याशङ्कयाह – उभयेत्यादि । स च समावेशो यथा - 'किंचि - त्कुश्चितचञ्चुचुम्बनमुखस्फारीभवल्लोचना स्वप्ने मोदितचारुचाटुकरणैश्चेतोऽर्पयन्ती मुहुः । कूजन्ती विततैकपक्षतिपुटेनालिङ्गच. लीलालसं धन्यं कान्तमुपान्तवर्तिनमियं पारावतं सेवते ॥' अत्र पारावतयोः सूक्ष्मधर्मवर्णनेन स्वभावोक्तिः, चित्तवृत्तिविशेषाच्च रसवदलंकार इत्यनयोः समावेशः। अन्यत्रेति । यत्र वस्तुगतसूक्ष्मधर्मवर्णना न स्यात् । अनेन च
१. 'प्रतीते' ख.
१. 'गत्वा' ख.

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218