Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
अलंकारसर्वस्वम् ।
१८९
'गाढालिङ्गनवामनीकृतकुचप्रोद्धिनरोमोद्गमा सान्द्रस्वेदरसातिरेकविगलच्छ्रीमन्नितम्बाम्बरा ।
मामा मानद माति मामलमिति क्षामाक्षरोल्लापिनी सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम् ॥' अत्र नायिकायां हर्षाख्यो व्यभिचारिभावः । यथा वा— 'त्वद्वामृतपानदुर्ललितया दृष्ट्या व विश्रम्यतां
त्वद्वाक्यश्रवणाभियोगपरयोः श्राव्यं कुतः कर्णयोः । एभिस्तत्परिरम्भनिर्भरतरैरङ्गैः कथं स्थीयतां
कष्टं तद्विरहेण संप्रति वयं कृच्छ्रामवस्थां गताः ॥ अत्र चिन्ताख्यो व्यभिचारिभावः । एष एव च भावालंकारः । भावस्य चात्र स्थितिरूपतया वर्णनम् । शान्त्युदयावस्थे तु वक्ष्येते ।
ऊर्जस्वी यथा'दूराकर्षणमोहमन्त्र इव मे तन्नाम्नि जाते श्रुति
चेतः कालकलामपि प्रकुरुते नावस्थिति या विना । एतैराकुलितस्य विक्षततरैरङ्गैरनङ्गातुरैः
संपद्येत कदा तदाप्तिसुखमित्येतन्न वेद्मिस्फुटम् ||' अत्र रावणस्याभिलाषको विप्रलम्भशृङ्गारः । औत्सुक्यं च व्यभिचारिभावः । अनौचित्येन प्रवृत्तौ समाहितं यथा'अक्ष्णोः स्फुटास्रु कलुषोऽरुणिमानिलीनः शान्तं च सार्धमधरस्फुरणं भ्रुकुट्या ।
व्याख्येयम् । यथा - 'पार्वत्या रचितां कपालिवृषभारूढं विलासाङ्गदग्रन्थिक्लान्तमहाहिलोचनलसज्ज्वालं पिनाकाङ्कितम् । कन्दर्पार्पितशासनां कविवलत्कंकालमर्धेन्दुमद्भस्माङ्कं च पुनातु वो नवरसान्पुष्णन्मुरारेर्धनुः ॥' अत्र भगवद्विषयाया रतेर्नव रसा अङ्गम् । विशेषमिति । अङ्गाङ्गित्वेन । तेन ध्वन्यभाववादिमतेनाङ्गाङ्गित्वमेवैषामाश्रित्योदाह्रियत इति तात्पर्यम् । भावालंकार इति । निर्वेदादीनां भावानां स्थित्यात्मकतयोपनिबध्यमानत्वात् । शान्त्युदयावस्थेति भावस्येत्यत्रापि संबन्धनीयम् । अनेन चास्य समाहि
1
१. 'प्रोद्भूत' क.

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218