Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
अलंकारसर्वस्वम् । निबन्धः, शबलता च बहूनां पूर्वोपमर्दैन निबन्धः । एते च पृथग्रसवदादिभ्यो भिन्नालंकाराः। ___एतत्प्रतिपादनं चोद्भटादिभिरेषां पृथगलंकारत्वेनानिर्दिष्टत्वात् । अथ , च संकरसंसृष्टिवैलक्षण्येन । एते च सर्वालंकाराः पृथक्केवलत्वेनालंकारा इति, सर्वालंकारशेषत्वेनोक्तम् । संसृष्टिसंकरयोर्हि संपृक्ततयालंकार स्थितिस्तद्वैलक्षण्यप्रतिपादनमेतत् । तत्र भावोदयो यर्थ व 'एकस्मिञ्छयने विपक्षरमणीनामग्रहे मुधिया sia...
सद्यः कोपपरिग्रहग्लपितया चाटूनि कुर्वन्नपि । आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तक्षेणा-..
न्माभूत्सुप्त इवेत्यमन्दवलितग्रीवं पुनीक्षितः ॥' अत्रौत्सुक्यस्योदयः । भावसंधिर्यथा'वामेन नारीनयनास्रधारां कृपाणधाराजथ दक्षिणेन । उत्पुंसयन्नेकतरः करेण कर्तव्यमूढः सुभटो बभूव ॥'
भावसंधिभावशबलतास्त्रयोऽलंकाराः । ननु च लक्षणस्य भिन्नत्वादेवैषां पृथक्त्वावगम इति किं तहणेनेत्याशङ्कयाह-एतदित्यादि । अथ चेति पक्षान्तरे । एत इति । पूर्वोद्दिष्टाः । सर्वालंकारा इति । पुनरुक्तवदाभासादिभावशबलान्ताः । केवलत्वेनेति । तस्यैवैकस्य वाक्यार्थत्वेन प्ररोहात् । तस्मादङ्गभूतैरलंकारान्तरैरुपस्क्रियमाणो वा य एव यत्र वाक्यात्तात्पर्यविषयत्वेन प्रतीयते स एव तत्र साक्षादलंकार इति भावः । अत एवात्र संसृष्टसंकरव्यपदेशः । यतस्तयोरलंकाराणां मिश्रत्वेनावस्थानं लक्षणम् । तदेवाह-संसृष्टीत्यादि । यत्तु पूर्वत्र कुत्रचिदुदाहरणेषु संकराद्यलंकारत्वमस्ति तत्तत्र संभवमात्रेण निदर्शनीकृतम् । न तु साक्षादलंकारत्वम् । तत्तत्र तथाविधस्योदाहरणस्य स्वयमेव लक्ष्यादभ्यूहः कार्यः । एतदुदाहरणत्रयं ध्वन्यभाववादिमतेन ग्रन्थकृतोपात्तम् । ध्वनिवादिमतेन पुनरुदाह्रियते । तत्र भावोदयो यथा—'साकं कुरङ्गकदृशा मधुपानलीलां कर्तुं सुहृद्भिरपि वैरिणि च प्रवृत्ते । अन्याभिधायि तव नाम विभो गृहीतं केनापि तत्र विषमामकरोदवस्थाम् ॥' अत्र राजविषयाया रतरङ्गभूतस्य त्रासस्योदयः । भावसंधियथा-'असोढा तत्कालोल्लसदसहभावस्य तपसः कथानां विश्रम्भेष्वथ च रसिकः शैलदुहितुः । प्रमोदं वो देव्याः कपटबटुवेषापनयने त्वराशैथिल्याभ्यां युगपदभियुक्तः स्मरहरः ॥' अत्र भगवद्विषयाया रतेरङ्गभूतयोरावेगधैर्ययोः संधिः । भावशबलता यथा-'प
१. 'शबलत्वेनेति' क. २. 'शाम्भमात्रेण' क. ३. 'दिश्यात्' ख.

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218