Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 196
________________ १९० काव्यमाला। भावान्तरस्य तव चण्डि गतोऽपि रोषो नो गाढवामनतया प्रसरं ददाति ॥' अत्र कोपस्य प्रशमः । एवमन्यत्राप्युदाहार्यम् । भावोदयो भावसंधिर्भावशबलता च पृथगलंकारः। भावस्योक्तरूपस्योदय उद्गमावस्था, संधिः द्वयोर्विरुद्धयोः स्पर्धित्वेनोप तादिभ्यो वैलक्षण्यं द्योतितम् । तेन यत्र भावस्य स्थितिस्तत्रायमलंकारः, अन्यथा त्वन्येऽलंकारा इति । एवमिति । यथैतदुदाहृतमित्यर्थः । अन्यत्रेति । ध्वनिवादमते एषामङ्गत्व इत्यर्थः । तत्र प्रेयोऽलंकारः 'कचकुच-' इत्यादिना व्यभिचारिभावापेक्षयोदाहृतः । देवताविषयरत्यात्मभावोपनिबन्धे पुनर्यथा-'कण्ठेऽर्पयत्युरगपाशमसूयया मे यामिन्यधीशशिख यत्समये कृतान्तः । नूनं तदा मुहुरुपैमि फणीन्द्रहार त्वत्तुल्यतामिति भजे मरणेऽपि हर्षम् ॥' अत्र भवद्विषयाया रतेमरणविषया रतिरङ्गमिति प्रेयोऽलंकारः । उर्जस्वी यथा-'वन्दीकृत्य नृप द्विषां मृगदृशस्ताः पश्यतां प्रेयसां श्लिष्यन्ति प्रणमन्ति लान्ति परितचुम्बन्ति ते सैनिकाः । अस्माकं सुकृतैर्दृशां निपतितोऽस्यौचित्यवारांनिधे विध्वस्ता विपदोऽखिलास्तदिति तैः प्रत्यर्थिभिः स्तूयसे ॥' अत्र राजविषयस्य भावस्य प्रथमद्वितीयार्धद्योत्यौ रसाभासभावाभासावङ्गम् । व्यभिचारिभावापेक्षया पुनरयं यथा'द्विषां तवारण्यनिवासमीयुषां नितम्बिनीनां निकुरम्बकं नृप । मुहुर्मुहुख्यश्रवलद्विलोचनं न केन पल्लीपतिना निरीक्षितः ॥' अत्र शबराणां परदारविषयमौत्सुक्यमनौचित्येन प्रवृत्तमिति भावाभासो राजविषयां रतिं प्रत्यङ्गम् । समाहितं यथा-'अविरलकरवालकम्पनैभ्रुकुटीतर्जनगर्जनैर्मुहुः । ददृशे तव वैरिणां मदः स गतः क्वापि तवेक्षणे क्षणात् ॥' अत्र राजविषयाया रतेरङ्गभूतस्य शत्रुविषयस्य मदस्य प्रशमः । देवतादिविषयरत्यात्मभावापेक्षया पुनरयं यथा-'अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधयस्तानेतानपि बिभ्रती किमपि न क्लान्तासि तुभ्यं नमः । आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्भुव. स्तावद्विभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ॥' अत्र राजविषयाया रतेरङ्गभूतस्य भूविषयस्य रत्याख्यभावस्य प्रशाम्यत्वम् । अत एव च समाहितं यदन्यैर्न लक्षितं तदत्यन्तमेवायुक्तम् । तन्मतेऽपि प्रेयोऽलंकारवद्रत्याभावापेक्षयास्य लक्षयितुं युक्तत्वात् । व्यभिचारिभावापेक्षया हि भवद्भिः प्रेयःप्रभृतीनामलंकारत्वं निरस्तम् । यदुक्तम्-'तस्माद्व्यभिचारापेक्षया प्रेय उर्जस्विसमाहितभावोदयसंधिशवलत्वानि न पृथगलंकाराणि वाच्यानि' इति । तस्माद्भवन्मतेऽपि समाहितादीनां लक्षणीयत्वं युक्तम् । भावेत्यादि । एतदेव व्याचष्टे-भावस्येत्यादि । उक्तरूपस्येति । व्यभिचारिदेवादिरतित्वेन द्विप्रकारस्येत्यर्थः । उद्गमावस्थेति । उद्गमावस्था न पुनरुदितेत्यर्थः । उदितायां हि भावस्य स्थित्यात्मकत्वात्प्रेयोऽलंकार एव स्यात् । एते इति । भावोदय

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218