Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
१८८
काव्यमाला |
एतन्मतद्वयेऽप्युदाहरणम् । वाक्यार्थी भूतोऽत्र करुणो रसः । अङ्गभूतस्तु विप्रलम्भशृङ्गारः । एवं रसान्तरेष्वप्युदाहार्यम् । प्रेयोऽलंकारादौ विशेषमनपेक्ष्योदाह्रियते । प्रेयोलंकारो यथा -
च दृष्टान्तदन्तिकयोर्न कश्चिद्विषम उपन्यासः । वक्तुश्चात्र सरलहृदयत्वेनैकत्र तात्पर्ये - च्छाभावान्नैकतरपक्षाश्रयणमिति न कश्चिदपि रसस्य प्राधान्यम् । नाप्येषां परस्परविरोधात्संधिरिति व्यभिचारिभावस्यैव प्राधान्यम् । एवं च निर्वेदादीनां गर्भदासवत्कदाचि - दपि प्राधान्यं [न] भवतीत्यपर्यालोचिताभिधानम् । गर्भदासस्यापि कदाचिदन्ततो गर्भदासीं प्रत्यस्ति प्राधान्यम् । प्रधानाप्रधानभावस्यापेक्षिकत्वात् । ' क्वचिदप्यपरस्याङ्गम्' इति नीत्यैषामङ्गत्वे प्राधान्याभावादलंकारत्वम् । यथा - - 'कचकुचचिबुकाग्रे पाणिषु व्यापृतेषु प्रथमजलधिपुत्रीसंगमेऽनङ्गधानि । निबिडनिबिडनीवीग्रन्थिविस्रंसनेच्छोचतुरधिककराशा शार्ङ्गिणो वः पुनातु ॥' अत्र शृङ्गाररसस्याप्ररूढत्वाद्गुणीभावेन वाक्यतात्पर्य - विषयत्वेनोपनिर्बन्धमप्यौत्सुक्यं शार्ङ्गिविषयां रतिं प्रत्यङ्गमिति प्रेयोऽलंकारः । ननु च यद्यपि परस्याङ्गत्वे सत्येषामलंकारत्वं तद्रसाङ्गभूतत्वादेषां सर्वत्रैव तत्त्वं स्यादिति चेत्, नैतत् । यस्मान्निमित्तान्तरेभ्यो लब्धसत्ताकस्याङ्गिभूतस्य वस्तुन उपस्काराधायकतयाङ्गतामुपगच्छतामेषामलंकारत्वमुपकार्योपस्कारकत्वनिबन्धनतयालंकार्यालंकरणभावस्योक्तत्वात् । रसादेः पुनः स्वरूपनिवृत्तये निर्वेदादयोऽङ्गतामुपयान्तीति तत्रैषां रसोपसर्जनी - भूतत्वात्तद्वयञ्जनमात्रमेव फलम् । अत एव तत्रैव पूर्वोक्तनीत्या न ध्वनित्वम्, नाप्यलंकारत्वम् । रसव्यक्तिव्यतिरेकिप्रयोजनान्तरनिष्पादनत्वायोगात् । एवं निर्वेदादीनां रसव्यक्तौ सहकारित्वम्, अङ्गित्वे ध्वनित्वम् अङ्गत्वे चालंकारत्वमिति विषयविभागः । तस्मात् 'निर्वेदादीनां सर्वदैवाङ्गभावात्प्रेयोऽलंकारस्तद्वयपेक्षो न वाच्यः । तस्मादेतेषां व्यङ्गयतायां ध्वनित्वं न प्राधान्यं कापि यस्माद्भजन्ते ॥ एतेन भावप्रशमादयोऽपि व्यङ्गथाः सदैव ध्वनितां प्रयान्ति । ध्वनित्वमिष्टं यदि तर्हि तेषु न लक्षणीयस्तु समाहितादि: ॥' इत्यादि यदन्यैरुक्तं तदुपेक्ष्यम् ॥ एतन्मतद्वय इति । ध्वन्यभाववादिनां ध्वनिभाववादिनां च । तत्र ध्वन्यभाववादिमते करुणापेक्षया रसवदलंकारः । शृङ्गारापेक्षया तूदात्तम् । मतान्तरेण तु करुणाभिप्रायेण रसध्वनिः । शृङ्गारापेक्षया त्वयमलंकारः । अत्र यद्यपि राजवि - षयाया रतेरङ्गित्वात्करुणोऽपि तदङ्गमेव, तथापि तस्य शृङ्गारापेक्षयाङ्गित्वमाश्रित्यैतदुक्तम् । करुणश्च शृङ्गारोपस्कृतः प्रतीयत इति तस्यालंकारत्वम् । एवमिति । यथा मतद्वयमपि संगच्छत इत्यर्थः । तत्तु यथा - ' का त्वं रक्तपटावगुण्ठितमुखी मुग्धे तवाहं सखी किं शून्यौकसि केवला निवससि त्वामागतान्वेषितुम् । एतद्वक्रमुदञ्चयेति कथयन्यालोक्य कूर्च ततः पत्युः स्मेरमुखाम्बुजस्य तरुणी जाता विलक्षस्मिता ॥' अत्र वाक्यार्थीभूतः शृङ्गारः, अङ्गभूतस्तु हासः । एवमिति सामान्येनाप्युदाहरणव्याप्तिपरं १. 'निबद्धमप्यौत्सुक्यम्' ख. २. ' इत्युक्तः' क.

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218