Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 191
________________ अलंकारसर्वस्वम् । १८५ रसभावतदाभासतत्प्रशमानां निबन्धनेन रसवत्प्रेय ऊर्जस्विस - माहितानि । उदात्ते महापुरुषचरितस्य चित्तवृत्तिरूपत्वाच्चित्तवृत्तिविशेषस्वभावत्वाच्च रसादीनामिह तदलंकाराणां प्रस्तावः । अत एव चत्वारोऽलंकारा युगपलक्षिताः । तंत्र विभावानुभावव्यभिचारिभिः प्रकाशितो रत्यादिश्चिसवृत्तिविशेषो रसः । भावो विभावानुभावाभ्यां सूचितो निर्वेदादिस्त्रयस्त्रिशद्भेदाः । देवादिविषयश्च रत्यादिर्भावः । तदाभासो रसाभासो भावाभासंश्च । आभासत्वमविषयप्रवृत्त्यानौचित्यम् । तत्प्रशम उक्तप्रकाराभ्यां निवर्तमानत्वेन प्रशाम्यदवस्था । तत्रापि रसस्य परविश्रान्तिरूपत्वात्सा न संभवति इति परिशिष्टभेदविषयो द्र विधिः शक्त्या भवद्देवरे गाढं वक्षसि ताडिते हनुमता द्रोणाद्रिरत्राहृतः । दिव्यैरिन्द्रजिदत्र लक्ष्मणशरैर्लोकान्तरं प्रापितस्तस्याप्यत्र मृगाक्षि राक्षसपतेः कृत्ता च कण्ठाटवी ॥' इत्यत्र तु रामस्य सीतां प्रत्युक्तावुपलक्षणीभूतदेशविशेषं पाशबन्धनाद्येव साक्षाद्विवक्षितमिति न महापुरुषचरितस्य वस्त्वन्तरं प्रत्यङ्गभाव इर्ति नायमलंकारः ॥ रसभावेति । अत एवेति । चतुर्णामपि चित्तवृत्तिविशेषस्वभावात् । तत्रेति । युगपल्लक्षणे स्थिते सतीत्यर्थः । विभावा ललनोद्यानादयः आलम्बनोद्दीपनकारणानि । अनुभावाः कटाक्षभुजक्षेपादयः कार्याः । व्यभिचारिणो निर्वेदादयः सहकारिणः । प्रकाशित इति । व्यञ्जितः । यदुक्तम् — 'विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्ति:' इति । रत्यादीत्यादि - शब्देन हासादीनां स्थायिनां ग्रहणम् । निर्वेदादिरिति । यदुक्तम् - निर्वेद ग्लानिश - ङ्काख्यास्तथासूयामदश्रमा: । आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ॥ व्रीडा चपलता हर्ष आवेगो जडता तथा । गर्यो विषाद औत्सुक्यं निद्रापस्मार एव च ॥ सुप्तं विबोधोऽमर्षश्चाप्यवहित्थमथोग्रता । मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥ वासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः । त्रयस्त्रिंशदमी भावाः समाख्यातास्तु नामतः ॥ इति । देवतादिविषयाणामानन्त्यादनेकप्रकारत्वेऽप्येकप्रकार एव रत्यात्मभावः । अत एव रत्या - 'दिरित्यादिशब्दः प्रकारे । चः समुच्चये । यदुक्तम् - ' रतिर्देवादिविषया व्यभिचारी तथाञ्चितः । भावः प्रोक्तः' इति । तथा ' तदाभासा अनौचित्यप्रवर्तिताः' इति । प्रशास्यदवस्थेति । न तु ध्वंसरूपा प्रशान्तावस्थेत्यर्थः । तथात्वे हि सर्वत्रैव कस्यचित्प्रकृतत्वे सर्वेषामन्येषां प्रशान्तत्वादेवंभावः स्यात् । ननूक्तप्रकारत्वेन परामृष्टस्य रसस्यापि कथं प्रशाम्यवस्था संगच्छत इत्याशङ्कयाह – तत्रापीत्यादि । परिशिष्टेति । १. ‘निबन्धने' ख. २. 'अत्र' क. ३. 'देवतादिविषयश्च' क. २४

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218