Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 190
________________ १८४ काव्यमाला । त्मन उदात्तस्यावसरः । तत्रासंभाव्यमानविभूतियुक्तस्य वस्तुनो वर्णनं कविप्रतिभोत्थापितमैश्वर्यलक्षणमुदात्तम् । यथा'मुक्ताः केलिविसूत्रहारगलिताः संमार्जनीभिहताः प्रातः प्राङ्गणसीम्नि मन्थरचलबालाङ्ग्रिलाक्षारुणाः । दूरादाडिमबीजशङ्कितधियः कर्षन्ति केलीशुका यद्विद्वद्भवनेषु भोजनृपतेस्तत्त्यागलीलायितम् ॥' अङ्गभूतमहापुरुषचरितं च । उदात्तशब्दसाम्यादिहाभिधानम् । महापुरुषाणामुदात्तचरितानामङ्गिभूतवस्त्वन्तराङ्गभावेनोपनिबध्यमानं चरितं चोदात्तम् । महापुरुषचरितस्योदात्तत्वात् । यथा 'तदिदमरण्यं यस्मिन्दशरथवचनानुपालनव्यसनी । निवसन्बाहुसहायश्चकारः रक्षःक्षयं रामः ॥' अत्रारण्ये वर्णनीये रामचरितमङ्गत्वेन वर्णितम् ।। विरुद्धत्वात् । तत्रेति । एवमवसरे सतीत्यर्थः । असंभाव्यमानेति । संभाव्यमानविभूतियुक्तस्य तु वर्णनं नैतदङ्गमिति भावः । यथा-'प्रातश्चकासति गृहोदरकुट्टिमाग्रवि. क्षिप्तरत्नकुसुमप्रकरावकीर्णाः। अभ्युद्गतारुणकराहतिपात्यमाननक्षत्रराशिशबला इव यत्र रथ्याः ॥' अत्र हि भगवन्नगर्यो वस्तुत एव संभवति रत्नविक्षेपः । अत एवास्य कविप्रतिभोत्थापितत्वमुक्तम् । एवं चास्य नामापि सार्थकम् । अलंकारसारकृता पुनरत्रातिशयोक्तिप्रकारत्वमुक्तम् । अङ्गभूतेत्यादि । एतदेव व्याचष्टे-महापुरुषाणामित्या. दिना । अङ्गभूतस्य वस्तुनो महापुरुषचरितमुत्कर्षप्रतिपिपादयिषयाङ्गतयोपनिबध्यमानमेतदलंकाराङ्गम् । न तूपलक्षणमात्रपरतयोपात्तमिति तात्पर्यार्थः । तच्च यथोदाहृतम् । 'कश्चित्कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः । यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसति रामगिर्याश्रमेषु ॥' अत्राङ्गिनो गिरिविशेषस्य वसतियोग्यत्वादिदर्शनार्थमुत्कर्षप्रतिपिपादयिषया रामसीतादिचरितमुपलक्षणपरं तत्र नायमलंकारः । यथा-'गोदावर्याः करिकुलमदक्षोददक्षोदकायाः पारे पारे बत बत परामृश्यतामृष्यमूकः । कंकालाद्रौ पिहितगगने दुन्दुभेर्यत्र रामः पादाङ्गष्ठं निजमपि भवदैवतं निर्ममेऽस्तम् ॥' अत्र पवनं प्रति वियोगिन्या उक्तौ रामचरितमुपलक्षणमात्रपरम् । न ह्यङ्गभूतेनाङ्गिनः कश्चिद्विशेषो विवक्षितः । 'अत्रासीत्फणिफाशबन्धन १. 'कृताः ' क-ख.

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218