Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 189
________________ १८३ अलंकारसर्वस्वम् । तत्र प्रथमप्रकारविषयोऽयमलंकारो न प्रकारान्तरगोचरः। कविसमपितानां धर्माणां ह्यलंकारत्वात् । न हिमांशुलावण्यादीनामिव वस्तुसन्निवेशिनाम् । अपि च 'शब्दानाकुलता चेति तस्य हेतून्प्रचक्षते' इति भामहीये, 'वाचामनाकुलत्वेनापि भाविकम्' इति चौद्भटलक्षणे व्यस्तसंबन्धर- ' हितशब्दसंदर्भसमर्पितत्वं प्रत्यक्षायमाणत्वप्रतिपादकं कथं प्रयोजकीभवेत् यदि वस्तुसन्निवेशधर्मिगतत्वेनापि भाविकं स्यात् । तस्माद्वास्तवमेव महत्त्वमुत्तरत्र प्रकारविषये वर्णितमिति नायमलंकारः । यदि तु वास्तवमेवात्र सौन्दर्य कविनिबद्धं कविनिबद्धवक्तृनिबद्धं वा सकलवक्तृगोचरीभूतं स्वभावोक्तिवदलंकारतया वर्ण्यते तदायमपि प्रकारो नातीव दुःश्लिष्टः । अत एव 'प्रत्यक्षा एव यत्रार्थाः क्रियन्ते भूतभाविनः । तद्भाविकम्' इति, एवमन्य विकलक्षणमकारि । स्वभावोक्त्या किंचित्सादृश्यात्तदनन्तरमस्य लक्षणं कृतम् । समृद्धिमद्वस्तुवर्णनमुदात्तम् । स्वभावोक्तौ भाविके च यथावद्वस्तुवर्णनम् । तद्विपक्षत्वेनारोपितवस्त्वा दिना । प्रथमेति । यत्र वर्णनावशात्प्रत्यक्षायमाणत्वम् । अत एव कविसमर्पितधर्मत्वं न वस्तुसन्निवेशिनां धर्माणामलंकारत्वादिति संबन्धः । न हि वस्तुमात्रवर्णने कविकौशलं किंचिदिति भावः । अपि चेति । निपातसमुदायः समुच्चयार्थः । अत्रैव वाक्यगत्या हे. त्वन्तरस्य समुच्चीयमानत्वात् । कथमिति । वस्तुमात्रवर्णने शब्दानामाकुलताया अनाकुलतायाश्चाविशेषात् । उत्तरप्रकारेति । अनातपत्रोऽपीत्यादौ । अत्रापि प्रकारान्तरेणालंकारत्वं योजयति-यदि त्वित्यादिना । सकलवक्तृगोचरीभूतमिति । कवित्वमात्रगम्यत्वात् । अत एव प्रत्यक्षायमाणत्वस्य तनिर्मितायमानत्वं स्यात् । सकलवक्टगोचरीभूतत्वे पुनर्यथोक्तं वास्तवत्वमेवेति भावः । नातीवेति । न पुन: प्रकारवत्सुश्लिष्ट इति यावत् । अत एवेति । वास्तवस्यापि सौन्दर्यस्यात्रालंकारतया वर्णनात् । एतावदेवेति न पुनः शब्दानाकुलत्वादिवस्तुनि तस्याविशेषात् । अन्यैरिति । काव्यप्रकाशकारादिभिः । समृद्धिमदित्यादि । तद्विपक्षत्वेनेति । वस्त्ववस्तुवर्णनयो १. 'उत्तरत्वप्रकारविषये ख. १. 'वस्तुसंनिवेशादलंकारस्वादिति संबन्धः' क.

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218