Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
१८०
काव्यमाला। णायं प्रतीयमानोत्प्रेक्षा । तस्या अभिधानरूपाख्याध्यवसायस्वभावत्वात् । न ह्यप्रत्यक्षं प्रत्यक्षत्वेनाध्यवसीयते । किं तर्हि काव्यार्थविद्धिः प्रत्यक्षत्वेन दृश्यते इति । नापि वस्तुगता इवार्था उत्प्रेक्षाप्रयोजकाः। तस्या अभिमानरूपायाः प्रतिपत्तृधर्मत्वात्। यदाहुः–'अभिमानेन सा योक्तिर्ज्ञानधर्मसुखादिवत्' इति च । काव्यविषये च प्रयोक्तापि प्रतिपत्तैव । नाप्यद्भुतदर्शनादतीतानागतत्वप्रत्यक्षत्वप्रतीतेः काव्यलिङ्गमिदम् । लिङ्गलिङ्गयभावेन प्रतीत्यभावात् । योगिवत्प्रत्यक्षतया प्रतीतेः । ___ नाप्ययं पुरः स्फुरद्रूपतया सचमत्कारं प्रतीते रसवदलंकारः । रत्यादिचित्तवृत्तीनां तदनुषक्ततया विभादीनामपि साधारण्येन हृदयसंवादितया परमाद्वैतज्ञानवत्प्रतीतौ तस्य भावात् । इह च ताटस्थ्येन भूतभाविनां स्फुटत्वेन भिन्नसर्वज्ञवत्प्रतीतेः । स्फुटप्रतीत्युत्तरकालं तु साधारण्यप्रतीतौ स्फुटप्रतीतिनिमित्तक औत्तरकालिको रसवदलंकारः स्यात् । नापीयं सुन्दरवस्तुस्वभाववर्णनात्स्वभावोक्तिः । तस्यां लौकिकवस्तुगतसूक्ष्मधर्मवर्णने साधारण्येन हृदयसंवादसंभवात् । किं तहीति । अध्यवसायो नास्त्येवेत्यर्थः। प्रतिपत्तैवेति। नह्यजानतः कवितुः प्रयोक्तत्वं भवतीति भावः । नन्वत्यद्भुतपदार्थप्रत्यक्षप्रतीत्योर्गम्यगमकभावात्कि नेदमनुमानमित्याशङ्कयाह-नापीत्यादि । एवं रसवदलंकारादस्य भेदं दर्शयति-नाप्ययमित्यादिना । पुरःस्फुरद्रूपतयेत्यादिनानयोरभेदनिमित्तमुक्तम् । परकीयायाश्चित्तवृत्तेरात्मीयचित्तवृत्त्यभेदेन परामर्शो हृदयसंवादः । तस्य च स्वपरविभागाभावाद्देशकालाभावाच्च व्यापकत्वेन प्रतीतेः साधारण्यम् । अत एव परमाद्वैतज्ञानतुल्यत्वम् । तस्य ह्ययमित्येव परामर्शः। तयतिरिक्तस्यान्यस्यासंभवात् । ताटस्थ्येनेति । इदमहं जानामीति सामानाधिकरण्येन प्रतीत्येत्यर्थः । अत एव विद्येश्वरादितुल्यत्वम् । ननु भाविकप्रतीत्यनन्तरं यत्र रसवदलंकारः प्रतीयते तत्र किं प्रतिपत्तव्यमित्याशङ्कयाह-स्फुटेत्यादि । एवमत्रानयोरङ्गाङ्गितया समावेश इति तात्पर्यार्थः । तत्तु यथा-वनान्तरादुपावृत्तैः स्कन्दासक्तसमित्कुशैः। अग्निप्रत्युद्गमात्पूतैः पूर्यमाणं तपस्विभिः ॥' अत्र तपस्विनां स्फुटत्वप्रतीतिः शान्ताख्यरसोदयाङ्गमिति न तयोरैकात्म्यम् । एवं च सुन्दरस्य वस्तुनो यथावद्वर्णनावशात्प्रत्यक्षायमानत्वमस्य स्वरूपमिति. तात्पर्यम् । ननु यद्येवं तत्किमिदं स्वभावोक्तिरेवेत्याशङ्कयाहनापीयमित्यादि । ईदृगिदं वस्त्वित्यत्र हृदयसंवादः । स च यथा-'यत्र स्तनंधया१. चित्तवृत्तिभेदेन' क. २. 'स्वभावोक्तिरेव नेत्याशङ्कयाह' ख.

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218