Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
१७८
काव्यमाला।
भावस्तस्य यथावदन्यूनानतिरिक्तत्वेन वर्णनं स्वभावोक्तिरलंकारः। उक्तिवाचोयुक्तिप्रस्तावादिह लक्षणम् । भाविकरसवदलंकाराभ्यामस्य भेदो भाविकप्रसङ्गेन निर्णेष्यते । यथा'क्रेङ्कारो नखकोटिचञ्चुपुटकव्याघट्टनोदृङ्कित
स्तन्व्याः कुन्तलकौतुकव्यतिकरे सीत्कारसीमन्तितः । पृष्टश्लिष्टदवामनस्तनभरोत्सेव्याङ्कपालीसुधा___ सेकाकेकरलोचनस्य कृतिनः कर्णावतंसीभवेत् ॥' अतीतानागतयोः प्रत्यक्षायमाणत्वं भाविकम् ।
अतीतानागतयोर्भूतभाविनोरर्थयोरलौकिकत्वेनात्यद्भुतत्वाव्यस्तसंबन्धरहितशब्दसंदर्भसमर्पितत्वाच्च प्रत्यक्षायमाणत्वं भाविकम् । कविगतो भाव आशयः श्रोतरि प्रतिबिम्बत्वेनास्तीति, भावो भावना वा पुनः पुनश्चेतसि
वेति । कवित्वमात्रगम्यत्वात् । तनिर्मित एवेति । अन्येषां तथात्वेन वक्तुमशक्यत्वात् । तद्वस्तुगतस्यासाधारणस्य फलक्रियादेः संभवतः स्वभावस्य शब्देन प्रतिपादनमात्रत्वात्तनिर्मित एवेत्युक्तम् । अन्यूनानतिरिक्तत्वेनेति । यथा वस्तुनि संभवतीत्यर्थः । अत एव सचेतसां वस्तुगतस्य सूक्ष्मसुभगस्य वस्तुनो वर्णनेन हृदयसंवादाच्च किमयं रसवदलंकारो वा न भवतीत्याशङ्कयाह-भाविकेत्यादि । तत्र निर्णेष्यमाणस्यैतद्भेदस्य 'वस्तुनश्चित्तवृत्तेश्च संवादः स्फुटता प्रथा । स्वभावोक्ते रसवतो भाविकस्य च लक्षणम् ॥' इत्ययं संक्षेपः ॥ अतीतानागतयोरित्यादि । एतदेव व्याचष्टे-अतीतेत्यादि । अलौकिकत्वेनेत्यनेन सहृदयानां तत्रावधानार्हत्वमुक्तम् । व्यस्तेति । यद्यपि वाचामाकुलत्वं सर्वत्रैव वर्जनीयम् तथापि तत्तत्र वैषम्येनार्थाविशेषात्प्रतीतेर्विघ्नमात्रफलम् । इह तु तदाकुलत्वेनातीतानागतयोः प्रत्यक्षायमाणत्वमेव न स्यादिति प्राधान्येनैतदुक्तम् । एवमनेन हेतुद्वयेनास्यालंकारत्वमुक्तम् । इह हि केचिदर्थाः कविवचसि सुस्पष्टमधिरूढा वाच्यवाचकयो रामणीयकमित्युक्तम् । अत एवैकस्यापि रामणीयकहानी नास्यालंकारत्वम् । इह हि केचिदर्थाः कविवचसि सुस्पष्टमधिरूढा अपि निजसौभाग्याभावात्तृणशर्करावत्सहृदयानामवज्ञास्पदतया नावधानार्हाः । केचिच्च सुभगा अपि दुर्भगशब्दोपारोहितया सहृदयानामनावर्जका एवेत्युभयमपीहावश्यमाश्रयणीयम् । यदाहु:-'प्रत्यक्षा इव यत्रार्था दृश्यन्ते भूतभाविनः । अत्यद्भुताः स्यात्तद्वाचामनाकुल्येन भाविकम् ॥' इति । वाशब्दः पक्षान्तरद्योतकः । ननु चाप्रत्यक्षाणां भूतभाविनां प्रत्यक्षेणोपनिबन्धा
१. 'प्रत्यक्षायमानत्वं' क.

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218