Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 183
________________ अलंकारसर्वखम् । चन्द्रग्रहणेन विना नास्मि रमे किं प्रतारयस्येवम् । देव्यै यदि रुचितमिदं नन्दिन्नाहूयतां राहुः ।। हा राहौ शितदंष्ट्रे भयकृति निकटस्थिते रतिः कस्य । यदि नेच्छसि संत्यक्तः संप्रत्येषैव हाराहिः । वसुरहितेन क्रीडा भवता सह कीदृशी न जिद्वेषि । किं वसुभिर्नमतोऽमून्सुरासुरान्नैव पश्यसि पुरः ॥ आरोपयसि मुधा किं नाहमभिज्ञा किल त्वदङ्कस्य । दिव्यं वर्षसहस्रं स्थित्वेति न युक्तमभिधातुम् ॥ इति कृतपशुपतिपेलवपाशकलीलाप्रयुक्तवक्रोक्ति । हर्षवशतरलतारकमाननमव्याद्भवान्या वः ॥' वक्रोक्तिशब्दश्चालंकारसामान्यवचनोऽपीहालंकारविशेषे संज्ञितः । सूक्ष्मवस्तुस्वभावयथावद्वर्णनं स्वभावोक्तिः। इह वस्तुस्वभाववर्णनमानं नालंकारः । तत्त्वे सति सर्व काव्यमलंकारः स्यात् । न हि तत्काव्यमस्ति यत्र न वस्तुस्वभाववर्णनम् । तदर्थ सूक्ष्मग्रहणम् । सूक्ष्मः कवित्वमात्रस्य गम्यः। अत एव तन्निर्मित एव यो वस्तुस्व न्यायेन शब्दश्लिष्टत्वादस्य श्लेषवक्रोक्तावन्तर्भाव: स्यात् । उभयमुखेनेति । सभङ्गासभङ्गश्लेषद्वारेण । विजय इति श्लेषस्यासभङ्गत्वम् । मेदुरोदरेणेति सभङ्गत्वम् । 'स्मेरोऽवताद्वः शिवः' तथा 'प्रयुक्तवक्रोक्ति' इत्यादिना वचनविघातमात्रप्रयोजनस्यान्यथा योजनस्य प्रहेलिकाप्रायत्वमेव प्रकाशितम् । ननु 'सैषा सर्वैव वक्रोक्तिः कोऽलंकारोऽनया विना' इति नीत्या समग्र एवालंकारवर्गो वक्रोक्तिरूप इति कथमयमेव तथात्वेन निर्दिष्ट इत्याशङ्कयाह-वक्रोक्तीत्यादि । इहेति । वाक्छलात्मकत्वेनोक्तेः कौटिल्यात् ॥ सूक्ष्मेत्यादि । ननु कथं वस्तुवर्णनमात्रमलंकार इत्याह-इहेत्यादि । 'तदतिशयहेतवस्त्वलंकाराः' इति नीत्या वस्त्वतिशयदायिनां धर्माणामलंकारत्वात्कथं वस्तुमात्रस्यैवालंकारत्वं स्यादिति भावः । ननु कथमेतत्सूक्ष्ममात्रग्रहणेनैव समाहितमित्याशङ्कयाहसूक्ष्म इत्यादि । कवित्वमात्रस्यति । कुशाग्रीयधिषणत्वात् । एवं स्थूलमतीनामकवीनां कुकवीनां तस्यावगमेऽपि तथा विकल्पारोहे न भवेदिति भावः । अत ए. १. 'सूक्ष्मम्' ख. १. 'सूक्ष्ममित्यादि' ख. २३

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218