Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
अलंकारसर्वस्वम् ।
१७५ मलंकरणमस्ति । इह तु तस्य संभवाव्यतिरिक्तापगुतिरिति पृथगयमलंकारो निर्दिष्टः।
अन्यथोक्तस्य वाक्यस्य काकुश्लेषाभ्यामन्यथा योजनं वक्रोक्तिः।
उक्तिव्यपदेशसाम्यावयाजोक्त्यनन्तरमस्या लक्षणम् । यद्वाक्यं केनचिदन्यथाभिप्रायेणोक्तं सदपरेण वक्रा काकुप्रयोगेण श्लेषप्रयोगेन वान्य- . थान्यार्थघटनया योज्यते तदुक्तिः सा वक्रोक्तिः । काकुप्रयोगेन यथा
'गुरुपरतन्त्रतया बत दूरतरं देशमुद्यतो गन्तुम् ।
अलिकुलकोकिलललिते नैष्यति सखि सुरभिसमयेऽसौ ॥ अत्रैतद्वाक्यं नायिकया आगमननिषेधपरत्वेनोक्तम् । तत्सख्या काकुप्रयोगेण विधिपरतां प्रापितम् । काकुवशाद्विधिनिषेधयोर्विपरीतार्थसंक्रान्तिः। तदित्यपहवाय सादृश्यम् । तत्रेति । श्लेषे । तन्मत इति । उद्भटमते । तस्येति । व्याजोक्त्याख्यस्यालंकारस्य । तद्व्यतिरिक्तेति । अपहृतौ हि प्रकृतमेवोत्कर्षयितुमप्रकृतस्योपादानम् । इह तद्भिन्नं सत्प्रकृतं वस्तु वस्त्वन्तरेणाप्रकृतेन निगृह्यते इत्यनयोर्महान्भेदः । एवं 'आकृष्यादौ' इत्यादौ च लोकात्मवस्त्वन्तरप्रक्षेपेणोद्भिन्नप्रियनिगृहनस्यैव वाक्यार्थत्वाव्याजोक्तिरेव न पुनरपगुतिः। अत एव च नात्र वक्रोक्तिः। तस्य हि यथायोजनमात्रं लक्षणम् ॥ अन्यथेत्यादि । एतदेव व्याचष्टे-यद्वाक्यमिति । अन्याभिप्रायेणेति । विवक्षितार्थपरतयेत्यर्थः । काकु: ध्वनिविशेषः । यदुक्तम् –'वाक्याभिधेयमानेऽर्थे येनान्यः प्रतिपद्यते । भिन्नकण्ठध्वनिरैिः स काकुरिति कथ्यते ॥' अन्यार्थघटनयेति । प्रक्रान्तादन्यस्य व्यतिरिक्तस्यार्थस्य घटनयोल्लेखनेनेत्यर्थः । येनकेनचिद्वक्राभिप्रेतार्थस्य प्रतिपादयिषयोक्तस्य वाक्यस्यान्येन विघाताय प्रहेलिकामात्रार्थ 'नवकम्बलकोऽयं माणवकः' इत्यादिना वाक्छलेनान्यथायोजनमात्रमयमलंकार इति पिण्डार्थः । अत एव द्वितीयो व्याघातो नास्या भेदतया वाच्यः । न हि तत्र वचनविघातायैवान्यथा योजनम् । तत्र हि 'बाल इति सुतरामपरित्याज्योऽस्मि, रक्षणीय इति भवद्भुजपञ्जरं रक्षास्थानम्' इत्यादौ बालवादिकं प्रस्थानविशेषतया राज्यवर्धनेन संभावितं श्रीहर्षेण पुनरन्यथा प्रस्थाननिमित्त. तया योजितम् । अतश्चात्रान्यथा योजनस्य प्रस्तुतवस्तुव्याहतिनिबन्धनत्वेऽपि प्रस्थान. विधौ तात्पर्यम् । न तद्विघातमात्रेणास्य वक्रोक्तावन्तर्भाव इति चेत्, तर्हि साधाविशेपादुपमेयोपमादीनामप्युपमायामन्तर्भावः किं न स्यात् । अथात्र फलभेदोऽस्तीति कथमेतदिति चेत् , एवमिहापि फलभेदस्य विद्यमानत्वात्कथमस्यान्तर्भावः स्यात् । तथा ह्यन्य
१. 'अन्याभिप्रायेण ख. १. 'श्रीकण्ठेन' ख.

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218