Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
१७६
काव्यमाला। तत्र श्लेषोऽभङ्गसभङ्गत्वेनोभयमयत्वेन त्रिविधः । तेत्रामाश्लेषमुखेन यथा
'अहो केनेहशी बुद्धिर्दारुणा तव निर्मिता ।
त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी क्वचित् ॥' * अत्र दारुणेति प्रथमान्तं प्रक्रान्तं श्लेषभङ्गया तृतीयान्ततया संपादितम् । सभङ्गश्लेषमुखेन यथा'त्वं हालाहलभृत्करोषि मनसो मूछी समालिङ्गितो
हालां नैव बिभर्मि नैव च हलं मुग्धे कथं हालिकः । सत्यं हालिकतैव ते समुचिता सक्तस्य गोवाहने
___ वक्रोक्त्येति जितो हिमाद्रिसुतया स्मेरोऽवताद्वः शिवः ॥' उभयमुखेन यथा'विजये कुशलख्यक्षो न क्रीडितुमहमनेन सह शक्ता । विजये कुशलोऽस्मि न तु ब्यक्षोऽक्षद्वयमिदं पाणौ ॥ किं मे दुरोदरेण प्रयातु यदि गणपतिर्न तेऽभिमतः ।
कः प्रद्वेष्टि विनायकमहिलोकः किं न जानासि ॥ था योजनस्य क्वचिद्वचनविघातमात्रं फलं क्वचिच्च संभाव्यमानव्याहतिनिबन्धनत्वेऽप्यर्थान्तरे तात्पर्यम् । फलभेदश्चालंकारभेदनिमित्तमित्यविवादः । तेन पूर्वत्र वक्रोक्तिरपरत्र व्याघात इति यथोक्त एवालंकारभेदो न्याय्यः । एवं फलान्तरेष्वपि ज्ञेयम् । तस्मात् 'एष श्रीकण्ठकण्ठच्छविरनभिमतो राजहंसव्रजानां सद्यस्तापं प्रजानां प्रशममुपनयनच्छधाराच्छलेन । कुर्वन्दिक्चक्रवालाक्रमणमुदयते देव को वारिवाहो मा मैवं मालवेन्द्रो परिमलकतरस्तर्हि राजनसिस्ते ॥' इत्यत्र श्रोत्रा संभावितस्य वारिवाहस्यान्यथा खड्गत्वेन योजनं तस्य तत्सादृश्यप्रतीत्यर्थमित्यङ्गभूतोत्तरमार्थमौपम्यं वक्तुर्विवक्षितम् । वाक्छलमुपचारफलम् । तदविशेषादिति वाक्छलेनैवास्य संग्रहादुपचारच्छलात्मकं क्वचित्त्वौपचारिके प्रयोगे मु. ख्यार्थमापादानमिति भेदान्तरमप्यवसानवाच्यम् । यस्तु तदर्थान्तराभावादिति न्यायाद्वागुपचारच्छलयोर्विशेष उक्तः स नैयायिकानामुपयुक्तो नालंकारिकाणाम् । तथात्वेनान्यथायोजनस्य वैचित्र्यान्तराभावात् । यद्वा मुख्यौपचारिकार्थद्वयस्यैकवृन्तगतफलद्वय
१. 'अत्र' ख. २. 'आहो' ख.
१. 'मुख्यार्थापादानं' ख. २. 'भेदान्तरमप्यस्या न वाच्यं' ख. ३. 'एकवृन्तगतच्छल. त्वन्यायेन' क.

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218