Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
१७४.
काव्यमाला ।
'वक्रस्यन्दिस्वेदबिन्दुप्रबन्धैर्दृष्ट्वा भिन्नं कुङ्कुमं कापि कण्ठे । पुंस्त्वं तन्व्या व्यञ्जयन्ती वयस्या स्मित्वा पाणौ खड्गलेखां लिलेख ॥'
अत्र स्वेदबिन्दुकृतकुङ्कुमरूपभिन्नेनाकारेण संलक्षितं पुरुषायितं पाणौ पुरुषोचितखड्गधारालिखनेन प्रकाशितम् ।
उद्विगन्नवस्तुनिगृहनं व्याजोक्तिः।
यत्र निगूढं वस्तु कुतश्चिन्निमित्तादुद्भिन्नं प्रकटतां प्राप्तं सद्वस्त्वन्तरप्रक्षेपेण निगृह्यते अपलप्यते सा वस्त्वन्तरप्रक्षेपरूपस्य व्याजस्य वचनाव्याजोक्तिः । यथा'शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लस
द्रोमाञ्चादिविसंस्थुलाखिलविधिव्यासङ्गभङ्गाकुलः । हा शैत्यं तुहिनाचलस्य करयोरित्यूचिवान्सस्मितं
शैलान्तःपुरमातृमण्डलगणैर्दृष्टोऽवताद्वः शिवः ॥' अत्र रोमाञ्चादिनोद्भिन्नो रतिभावः शैत्यप्रक्षेपणेनापलपितः । यद्यप्यपहुतोऽपि सस्मितत्वख्यापनेन पुनरप्युद्भिन्नत्वेन प्रकाशितः । तथाप्यपलापमात्रचिन्तयास्यालंकारस्योल्लेखः । नन्वपहृतिग्रन्थे 'यथा सादृश्याय योऽपहवः सापहुतिः, तथापहवायापि यत्सादृश्यं साप्यपद्भुतिः' इति स्थापितम् । व्याजोक्तौ चोत्तरः प्रकारो विद्यते तत्कथमियमलंकारान्तरेण कथ्यते । सत्यम् । उद्भटसिद्धान्ताश्रयेणोत्तरत्रोक्तम् । न हि तन्मते व्याजोक्त्याख्य
वाच्यः । सूक्ष्मस्यैवार्थस्य संलक्ष्यमाणत्वादिनावस्थानात् ॥ उद्भिन्नेत्यादि । निगूढमिति । वस्तुतः । वस्त्वन्तरप्रक्षेपेणेति । निमित्तान्तरकथनेनेत्यर्थः । रतिभाव इति । स्थायी । अपहृतोऽपीति । व्याजोक्तेः प्ररोहात् । अपला. पमात्रचिन्तयेति । तावन्मात्रस्यैव तल्लक्षणत्वात् । अस्याश्चापद्भुतेर्भेदं दर्शयितुमुपक्रमते-नन्वित्यादिना । स्थापितमिति । श्लेषग्रन्थे यदुक्तम् । ‘सादृश्यव्यक्तये यत्रापह्नवोऽसावपगुतिः' इति । एवमपह्नवग्रन्थ इति पूर्ववाक्य एव संबन्धनीयम् । उत्तरः प्रकार इति । अपह्नवाय सादृश्यं तदिति । उत्तरेणैव प्रकारेण व्याप्तत्वात् । कथमिति । निष्प्रयोजकत्वात् । एतदेवाप्युपगम्यं प्रतिविधत्ते-सत्यमित्यादिना ।
१. 'तत्तत्रोक्तम्' ख.

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218