Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 178
________________ १७२ काव्यमाला । उत्तरात्मश्नोनयनमसकृदसंभाव्यमुत्तरं चोत्तरम् । यत्रानुपनिबध्यमानोऽपि प्रश्न उपनिबध्यमानादुत्तरादुन्नीयते तदेकमुतरम् । न चेदमनुमानम् । पक्षधर्मतादेरनुद्देशात् । यत्र च प्रश्नपूर्वकमसंभावनीयमुत्तरं तच्च न सकृत् तावन्मात्रे चारुत्वाप्रतीतेः । अतश्चासकनिबन्धे द्वितीयमुत्तरम् । __ न चेयं परिसंख्या । व्यवच्छेद्यव्यवच्छेदकपरत्वाभावात् । क्रमेण यथा 'एकाकिनी यदबला तरुणी तथाह मस्मद्गृहे गृहपतिश्च गतो विदेशम् । अन्यकृता तु प्राच्यानुरोधाल्लक्षितः। विषमालंकार-' इति पाठस्तु पुस्तकान्तरेषु स्थितोऽप्यपायुक्तः । न हि कार्यकारणभावविवक्षामात्रेणात्र तत्त्वं स्यायेन तनिषेधेन तस्यानवकाशः । तस्य हि विरूपस्य कार्यस्यानर्थस्योत्पत्तिश्च लक्षणम् । उत्तरादित्यादि। उन्नीयत इति । प्रश्नरूपत्वेन संभाव्यत इत्यर्थः । ननु चाप्रतीतस्य प्रत्ययनात्किमिदमनुमानं न भवतीत्याशङ्कयाह-न चेदमित्यादि । असंभावनीयमिति । कविप्रतिभानिवर्तितमित्यर्थः । तदिति । प्रश्नपूर्वकमुत्तरम् । एवं प्रश्नस्याप्यसकृदेवोपनिबन्धो न्याय्यः । अतश्चेति । सकृदुत्तरस्य चारुत्वाप्रतीतेः । एवं समानन्यायत्वात्पूर्वत्राप्यनुपनिबध्यमानप्रश्नागरकमुत्तरं न सकृत्, तावन्मात्रेण चारुत्वाप्रतीरित्याश्रयणीयम् । ननु च प्रश्नोत्तररूपत्वादियं परिसंख्यैव किं न भवतीत्याशङ्कयाह-न चेयमित्यादि । एतच्चोत्तराख्यमलंकारद्वयम् । न पुनरेकः, सामान्यलक्षणायोगात् । एतच्चोदाहरणद्वयं ग्रन्थकृता प्राच्यमतानुरोधेन दत्तम् । वस्तुतस्त्वत्र नास्त्येतदलंकारद्वयम् । अत एवैतावतालंकारसारकारादिभिरेतदलंकारद्वयमपास्तम् । न च तद्युक्तम्, लक्षणदोषाभावात् । उदाहरणान्तरेष्वस्य प्रतिष्ठानात् । तत्तु यथा-'भिक्षो कन्था श्लथा किं ननु शफरवधे जालिकैषात्सि मत्स्यान्मध्ये मद्यावदंशं पिबसि मधु समं वेश्यया यासि वेश्याम् । हत्वारीन्कि करिष्ये कति तव रिपवः संधिभत्तास्मि येषां चोरस्त्वं द्यूतहेतोः कथमसि कितवो येन भिक्षुर्नमस्ते ॥' अत्र हि शफरबन्धजालिकैषेत्युत्तरान्मत्स्यादनरूपस्य प्रश्नस्योनयनम् । एवमन्यदपि ज्ञेयम् । 'येन दासीसुतोऽस्मि' इति पुनः पाठो ग्राह्यः । दासीसुतत्वे कितवस्य निमित्तत्वाभावात् । प्रश्नोत्तरोन्नयनस्यासमाप्तेः साकाङ्कत्वाद्वाक्यार्थस्यावि. श्रान्तेः । द्वितीयो यथा-'पुंसः संबोधनं किं विदधति करिणं के रुचोऽभिषक्किं का 'शून्या ते रिपूणां नरवर नरकं कोऽवधीत्कीडनं किम् । के वा वर्षासु न स्युस्तणमिव हरिणा किं नखानविभिन्नं विन्ध्याद्री पर्यटनको विघटयति तनुर्नर्मदावारिपूरः ॥' 'नर्मदा

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218