Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
अलंकारसर्वस्वम् । १७१ निधानाख्ये हेतौ सत्यपि तद्रूपस्योत्कृष्टगुणस्याननुहरणं न्यूनगुणेनाननुवर्तनं भवति सोऽतद्गुणः । तस्योत्कृष्टगुणस्यास्मिन्गुणा न सन्तीति । यद्वा तस्याप्रकृतस्य रूपाननुपहारः सत्यननुहरणहेतौ सोऽतद्गुणः । तस्याप्रकृतस्य गुणा नास्सिन्सन्तीति कृत्वा । क्रमेण यथा
'धवलो सि जह वि सुन्दर तह वि तुए मज्झ रञ्जिअं हिअअम् । राअभरिए वि हिअए सुहअ णिहित्तो ण रत्तो सि ॥' 'गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः ।
राजहंस तव सैव शुभ्रता चीयते न च न चापचीयते ॥' पूर्वत्रातिरक्तहृदयसंपर्कान्नायकस्य धवलशब्दवाच्यस्य प्राप्तमपि रक्तत्वं न निष्पन्नमित्यतद्गुणः । उत्तरत्राप्रकृतस्य गाङ्गयामुनजलस्य संपर्केऽपि न तथा रूपत्वमित्ययमप्यतद्गुण एव ।
कार्यकारणभावस्य चात्राविवक्षणान्न विषमालंकारावकाशः।
मलंकार इत्याह-यदेत्यादि । उत्कृष्टगुणस्येत्यनेन व्याख्यान्तरे द्वयोरपि गुणत्वं सूचि. तम् । एवं च प्राप्तेऽप्यन्यगुणस्वीकारे तदभावोऽयमलंकारः । यदुक्तम्-'तद्रूपाननुहारश्चेदस्य तत्स्यादतद्गुणः' इति । अस्मिन्निति । न्यूनगुणे । यद्वेति पक्षान्तरे । अप्रकृतस्येति । अननुदाहरणीयगुणस्यान्यस्य । तदेवं व्याख्यानद्वयेनास्य प्र. कारद्वयं दर्शितम् । अननुदाहरणाख्यस्य सामान्यस्यानुगमात् अतिरिक्तत्वेनात्युत्कृष्टगुणत्वं हृदयस्य दर्शितम् । अयमपीति । समानगुणत्वेनापीत्यर्थः । धवलो सीति । तत्तद्गुण एवेति ग्रन्थैकदेशस्तु क्वचिल्लेखकैः कल्पित इत्युपेक्ष्य एव । पुस्तकान्तरेष्वस्यादृष्टेः । न च गाथाव्याख्यानं प्रस्तुतं येनात्रालंकारान्तरस्यापि व्याख्यानं स्यात् । नाप्यत्र तगुणः । तस्य हि स्वगुणत्यागेनाप्यन्यगुणस्वीकारो लक्षणम् । न चात्र स्वगुणत्यागो नाप्यन्यगुणस्वीकारः । तस्य धवलत्वव्यभिचारात् । किं त्वत्र कारणाभावेऽपि कार्योत्पादनाद्विभावना, न तु विरूपकार्योत्पत्त्या विषमालंकारः । तत्र हि कार्यकारणयोर्विरूपत्वेऽप्यबाध्यमानतया प्रतीति: । इह त्वेकस्य बाध्यमानतयेति महाननयोर्भेदः । नन्वत्र सत्यपि कारणसामध्येऽन्यगुणानुदाहरणरूपस्य कार्यस्यानुत्पत्तेः किमयं विशेषोक्तिरेव न भवतीत्याशङ्कयाह-कार्येत्यादि । अविवक्षणादिति । वस्तुतस्तु संभवत्येव कार्यकारणभावः । अत एवालंकारसारकृता विशेषोक्त्यन्तर्भाव एवोक्तः ।
१. 'धवलोऽसि यद्यपि सुन्दर तथापि त्वया मम रञ्जितं हृदयम् । रागभरितेऽपि हृ. दये सुभग निहितो न रक्तोऽसि ॥' इति च्छाया.

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218