Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
अलंकारसर्वखम् ।
१६९ अत्र हक्तारल्यादिना स्वाभाविकेन लक्ष्मणा मदोदयकृतं हक्तारल्यादि तिरोधीयते । आगन्तुकेन यथा
'ये कन्दरासु निवसन्ति सदा हिमाद्रे
स्त्वत्पातशङ्कितधियो विवशा द्विषस्ते । अप्यङ्गमुत्पुलकमुद्वहतां सकम्पं
तेषामहो बत भियां न बुधोऽप्यभिज्ञः ॥' अत्र हिमाद्रिकन्दरानिवाससामर्थ्यप्रतिपन्नेन शैत्येन समुद्भावितावागन्तुकौ कम्परोमाञ्चौ भयकृतयोस्तयोस्तिरोधायकौ । तिरोधायकत्वादेव च मीलितव्यपदेशः।
प्रस्तुतस्यान्येन गुणसाम्यादैकात्म्यं सामान्यम् ।
यत्र प्रस्तुतस्य वस्तुनोऽप्रस्तुतेन साधारणगुणयोगादैकात्म्यं भेदानध्यवसायादेकरूपत्वं निबध्यते तत्समानगुणयोगात्सामान्यम् । न चेयमपहुतिः । किंचिन्निबध्य कस्यचिदप्रतिष्ठापनात् । यथा'मलयजरजसा विलिप्ततनवो नवहारलताविभूषिताः ।
सिततरदन्तपत्रकृतवक्ररुचो रुचिरामलांशुकाः । शशभृति विततधाम्नि धवलयति धरामविभाव्यतां गताः प्रियवसति प्रयान्ति सुखमेव निरस्तभियोऽभिसारिकाः ॥'
तत्सादृश्यस्य प्रतिपादयिषितत्वात् । न चैवमप्यन्यस्यान्यतया प्रतीतेरस्य भ्रान्तिमत्यन्तर्भावो वाच्यः । तस्य हि प्रकृतवस्त्वाच्छादकत्वेनैव प्रतीतिर्लक्षणम् । इह तु तथात्वेऽपि वस्त्वन्तरस्य पृथक्प्रतिपत्तिरित्यलं बहुना । न चास्य संज्ञामात्रमेतदित्याह-तिरोधायकत्वादिति । अतश्च पूर्व तदन्वर्थाभिधानं मीलितमित्युक्तं निर्वाहितम् ॥ प्रस्तुतस्येत्यादि । प्रस्तुतस्येत्युपमेयस्य । अप्रस्तुतेनेत्युपमानेन । साधारणगुणानां च त्रिरूपत्वमत्रार्थसिद्धम् । तेन साधारणगुणस्यानुगामितया यथा-'मध्ये जानपदस्तैणमुखानाममलत्विषाम् । रोहोरलक्ष्यतामेति यत्र पूर्णेन्दुमण्डलम् ॥' अत्रामलकान्तित्वम. नुगामितया सकृनिर्दिष्टम् । असकृनिर्देशस्तु यथा-अभेदमित्यादौ । अत्र स्तवकस्तनयोविम्वप्रतिबिम्बभावः । ललितत्वनर्तितत्वयोः शुद्धसामान्यरूपत्वम् । ननु च प्रस्तुतस्याप्रस्तुतेनापहवः क्रियत इति किमयमपह्नुतिरेव न भवतीत्याशङ्कयाह-न चेयमित्यादि।
१. 'साधारणधर्माणो' ख. २. 'राहोरालक्ष्यतां' ख. ३. 'तुलितत्व' ख.
२२

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218