Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 174
________________ १६८ काव्यमाला। न्वर्थाभिधानं मीलितम् । न चायं सामान्यालंकारः, तस्य हि साधारणगुणयोगाद्भेदानुपलक्षणं रूपम् । अस्य तूत्कृष्टगुणेन निकृष्टगुणस्य तिरोधानमिति महाननयोर्विशेषः । सहजेन यथा 'अपाङ्गतरले दृशौ मधुरवक्रवर्णा गिरो विलासभरमन्थरा गतिरतीव कान्तं मुखम् । इति स्फुरितमङ्गकैर्मगदृशां स्वतो लीलया यदत्र न मदोदयः कृतपदोऽपि संलक्ष्यते ॥ वस्त्वन्तरेण निगृहितत्वेनैकात्म्योपनिबन्धात्किमयं सामान्यालंकार एव न भवतीत्याश याह-न चायमित्यादि । साधारणगुणयोगादिति । यदाहुः-'प्रस्तुतस्य यदन्येन गुणसाम्यविवक्षया । ऐकात्म्यं बध्यते योगात्तत्सामान्यमिति स्मृतम् ॥' इति । भेदानुपलक्षणमिति । प्रस्तुताप्रस्तुतात्मनः सदृशस्य वस्तुद्वयस्यासामान्याकारतया पृथगवगतस्याप्येकतरविशेषस्मरणादुभयविशेषाग्रहणाच्चैकतरत्वेनैव निश्चयोत्पादनाद्धटपटवढ्दो न प्रातिष्टकेन रूपेणानुपलक्षणं यथावगमनमध्यवसाय इत्यर्थः । यथा-राजगञ्जादौ शुक्तिकारजतयोः संनिकर्षण सामान्याकारतया पृथगवगमेऽप्येकतरविशेषस्मरणादुभयत्र विशेषाग्रहणात्कस्यचिदेकतरत्वेनैव निश्चयो जायते तथैवेहापि ज्ञेयम् । मीलिते पुनर्ग्युन गुणस्याधिकगुणेन तिरोहितत्वात्सामान्याकारकत्वेनाप्युभयावगमो न्यूनगुणाच्छादकतया तद्देशावष्टम्भेनाधिकगुणस्यैव प्रतिभासनात् । अत एवात्र मदोदयकृतस्य दृक्तारल्यादेर्नावगममात्रं तस्य मदोदयात्पूर्वमपि तथैवावस्थानात् । बलवता स्वाभाविकेन दृक्तारल्यादिनाच्छादितत्वात् । सामान्ये पुनः–'अभेदमूढस्तबकाभिरागता लताभिरीषल्ललितालि. पतिभिः । इयं पुरो मारुतनर्तितालका न लक्ष्यते व्यक्तमवामनस्तनी ॥' इत्यादौ निकुञ्जमध्यगताया योषितः पृथग्देशावष्टम्भेन सामान्याकारतयावगमेऽपि साधारणगुणयोगाल्लताभ्यो भेदेनानध्यवसायः । अत एव 'न लक्ष्यते व्यक्तम्' इत्याद्युक्तम् । अतश्च स्वरूपेणावगतस्यापि भेदानध्यवसायः । सामान्यं बलवता तिरोहितत्वात्स्वरूपानवगमो मीलितमिति स्थितम् । अत एवाह-महाननयोर्विशेष इति । एवं तर्हि समानगुणत्वस्याविशेषाद्वक्ष्यमाणोदाहरणादावभिसारिकादिवज्ज्योत्स्नादेरपि भेदानुपलक्षणं किं न स्यात् । ननूक्त एवात्र परिहारो यत्सुमनोगुणत्वेऽप्येकतरविशेषस्मरणादुभयविशेषाग्रहणाच्चेति एवमपि कथमिति चेत्, कस्यायं पर्यनुयोगः, किं ज्ञातुरुत ज्ञेयस्य वा । एतच्चाप्रस्तुतत्वान्नेहास्माभिरुक्तम् । इह च प्रस्तुतस्यैवाप्रस्तुताद्भेदेनानुपलक्षणं विवक्षितम् । तद्गतत्वेनैवाभेदद्वारेण १. 'भेदः' क. १. 'बाध्यते' क. २. 'दृक्तारतम्यादेः' क.

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218