Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 172
________________ काव्यमाला । 'यत्र च प्रमदानां चक्षुरेव सहनं मुण्डमालामण्डनं भारस्तु कुवलयदलमाल्यानि' इत्यादि । यथा वा'लावण्यौकसि सप्रतापगरिमण्यग्रेसरे त्यागिनां देव त्वय्यवनीभरक्षमभुजे निष्पादिते वेधसा । इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं चिन्तारत्नमहो मुधैव किममी सृष्टाः कुलक्ष्माभृतः ॥' अत्र यथासंख्यमप्यस्तीति प्राक्प्रतिपादितम् । 'ए एहि दाव सुन्दरि कण्णं दाऊण सुणसु वअणिजम् । तुज्झ मुहेण किसोअरि चन्दो उअमिजइ जणेण ॥' अत्रोपमानत्वेन प्रसिद्धस्य चन्द्रमसो निकर्षार्थमुपमेयत्वं कल्पितम् । वदनस्य चोपमानत्वविवक्षात्र प्रयोजिका । क्वचित्पुनर्निष्पन्नमेवौपम्यमनादरकारणम् । यथा यते तथैव साधुवादादिभिरिति साधुवादादिभिरेव तत्कार्यकरणात्कर्णपूरादीनामाक्षेपः । तस्य च साधुवादादीनामत्यन्तमेव तत्साधर्म्यात्प्रतिपादनं फलम् । एवं 'खेलन्तीनां सुरपतिपरीवारवाराङ्गनानां यन्मञ्जीरध्वनितसुभगो रौति कोलाहलोऽयम् । तेनैवास्ते मदननृपतेर्माङ्गलिक्ये प्रबोधे मोघायन्ते पथि पथि गिरः कच्छपारावतानाम् ॥' इत्यत्रापि ज्ञेयम् । यत्पुनरत्रान्यैरुपमानोपमेयत्वस्याविवक्षितत्वमुक्तम्, तत्तेषां तत्स्वरूपानभिज्ञत्वम् । लावण्यादिधर्मश्चात्र नृपचन्द्रयोरनुगामितया निर्दिष्टः । यथा वा-'तस्याश्चेन्मुखमस्ति सौम्यसुभगं किं पार्वणेनेन्दुना सौन्दर्यस्य पदं दृशौ यदि च ते किं नाम नीलोत्पलैः । किं वा कोमलकान्तिभिः किसलयैः सत्येव तत्राधरे ही धातु: पुनरुक्तवस्तुरचनारम्भेष्वपूर्वो ग्रहः ॥' इत्यत्र सौम्यसुभगत्वादि सकृनिर्दिष्टम् । असकृनिर्देशस्तु यथा-'यद्यस्ति तस्याः स्मरशाभङ्गिविलासवेल्लद्भु मुख नताङ्गयाः। तदिन्दुना किं विहितं विधात्रा सृष्टेन व. लगन्मृगशावकेन॥' अत्र वेलद्वल्गत्वयोः शुद्धसामान्यरूपत्वं भ्रूमृगयोस्तु बिम्बप्रतिबिम्बभावः । निकर्षार्थमिति । अन्यथा चन्द्रस्योपमेयत्वकल्पनं निरर्थकं स्यात् । प्रयोजिकेति । उत्कर्षप्रतिपादनात् । अत्रापि साधारणधर्मस्यानुगामितया यथा—'मुखेन सखि पीयूषपेलवेन निशासु ते । उपमानतया चन्द्रं प्रियेणाशिष्यते ध्रुवम् ॥' अत्र पीयूषपेलवत्वमनुगामितयोपात्तम् । असकृनिर्देशस्तु यथा-'पौलस्त्य विस्तृतविवेल्लदपूर्वबभ्रुवर्चच्छटाप्रकटितं १. 'अये एहि तावत्सुन्दरि कर्ण दत्वा शृणुष्व वचनीयम् । तव मुखेन कृशोदरि चन्द्र उपमीयते जनेन ॥' इति च्छाया. २. 'निष्पन्नमौपम्यम्'ख. ३. 'यथा' ख-पुस्तके नास्ति.

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218