Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
अलंकारसर्वस्वम् ।
'यस्य किंचिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः । कान्तवसदृशाकृतिकृती राहुरिन्दुमधुनापि बाधते ॥' अत्र राहोः सकाशाद्भगवान्बलवान्विपक्षः । तदीयः पुनर्वक्रसादृश्यमुखेन दुर्बलश्चन्द्रमाः तत्तिरस्काराद्भगवतः प्रकर्षावगतिः ।
उपमानस्याक्षेप उपमेयताकल्पनं वा प्रतीपम् ।
१६५
उपमेयस्यैवोपमानभारोद्वहनसामर्थ्यादुपमानस्य कैमर्थक्येनाक्षेप आलोचनं क्रियते तदेकं प्रतीपम् । उपमानप्रतिकूलत्वादुपमेयस्य प्रतीपमिति व्यपदेशः । यद्युपमानतया प्रसिद्धस्योपमानान्तरप्रतितिष्ठापयिषयानादरणार्थमुपमेयत्वं कल्प्यते तत्पूर्वोक्तगत्या द्वितीयं प्रतीपम् । क्रमेण यथा—
1
त्यादि । बलवत्त्वाख्यापनमिति । अप्रतीकार्यत्वात् । अत्रेत्यादि । वक्रसादृश्यमुखेन तदीय इति संबन्धः । तत्तिरस्कारादिति । न पुनस्तत्स्वीकारात् । बाधत इत्युक्तेस्तिरस्कारस्यैव साक्षाद्वाक्यार्थत्वात् । अत एव परैरपि तत्संबन्धितिरस्कारद्वारा तस्यैव बाधनादित्युक्तम् । प्रकर्षोऽप्रतीकार्यत्वम् । एतेन चास्य प्रयोजनं दर्शितम् । अत्र ह्यतिरस्कार्यतिरस्करणातिरस्करणकर्तुर्निन्दाद्वारेण बलवत: प्रतिपक्षस्य प्रतीकार्यत्वात्स्तुति- . प्रतिपादने तात्पर्यम् । उपमानस्येत्यादि । कैमर्थक्येनेत्यादि । तद्व्यापारस्योपमेयेनैव कृतत्वादनुपयोगेनेत्यर्थः । उपमानान्तरेति । उपमानानां मध्ये | अनादरणार्थमिति । उपमानत्वेन नैतद्योग्यमिति यावत् । पूर्वोक्तगत्येति । उपमेयस्यो - पमानप्रतिकूलवर्तित्वात् । अनेनोभयत्रापि नैतत्संज्ञामात्रमित्युक्तम् । एकं द्वितीयमित्यभिदधता ग्रन्थकृता प्रतीपाख्यमलंकारद्वयं पुनः सामान्यलक्षणाभावादेकमेव द्विप्रकारमित्युक्तम् । उपमाप्रकारत्वं चानयोर्न वाच्यम् । उपमानस्याक्षेपादुपमेयकल्पनाच्च । न हि तत्र तदस्तीति ततोऽनयोः सुप्रत्यय एव भेदः । अनयोः पुनः साधर्म्यजीवितत्वात्साधारणधर्माणामस्ति त्रैविध्यम् । एवमौपम्यमन्तरेण नैतदलंकारद्वयं भवतीत्यवगन्तव्यम् । तेन 'णिद्दश्च वन्दिज्जिअ किं किरऊ देवआहिं अण्णाहिं । जिइ पसाएण पिओ लघइ दूरेविणिवसन्तो ॥ इत्यत्रापि प्रतीपालंकारत्वं न वाच्यम् । अत्र हि देवतान्तराणां तथा सामर्थ्यादर्शनात्तदाक्षेपेण स्वप्नकाले प्रियोपलब्धिदायिन्या निद्राया विरहिणीकर्तृकं वास्तवमेव वन्द्यत्वम् । वस्तु च नालंकार इति निर्विवादः । कुवलयदलदानामाक्षेपश्चक्षुषामत्यन्तमेव तत्साधर्म्यप्रतिपादनार्थः । अन्यथा हि तदाक्षेपो निरर्थकः स्यात् । एवं 'किं कर्णपूरैर्यदि साधुवादा मुक्ताफलैः किं यदि वाग्विलासाः । किं चूर्णयोगैर्यदि रूपशोभा लावण्यमास्ते यदि चन्दनैः किम् ॥' इत्यत्रापि ज्ञेयम् । अत्र हि यथा कर्णपूरादिभिः श्रोत्रशोभा कि
१. 'तिरस्कारकर्तुः' ख.

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218