SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ अलंकारसर्वस्वम् । 'यस्य किंचिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः । कान्तवसदृशाकृतिकृती राहुरिन्दुमधुनापि बाधते ॥' अत्र राहोः सकाशाद्भगवान्बलवान्विपक्षः । तदीयः पुनर्वक्रसादृश्यमुखेन दुर्बलश्चन्द्रमाः तत्तिरस्काराद्भगवतः प्रकर्षावगतिः । उपमानस्याक्षेप उपमेयताकल्पनं वा प्रतीपम् । १६५ उपमेयस्यैवोपमानभारोद्वहनसामर्थ्यादुपमानस्य कैमर्थक्येनाक्षेप आलोचनं क्रियते तदेकं प्रतीपम् । उपमानप्रतिकूलत्वादुपमेयस्य प्रतीपमिति व्यपदेशः । यद्युपमानतया प्रसिद्धस्योपमानान्तरप्रतितिष्ठापयिषयानादरणार्थमुपमेयत्वं कल्प्यते तत्पूर्वोक्तगत्या द्वितीयं प्रतीपम् । क्रमेण यथा— 1 त्यादि । बलवत्त्वाख्यापनमिति । अप्रतीकार्यत्वात् । अत्रेत्यादि । वक्रसादृश्यमुखेन तदीय इति संबन्धः । तत्तिरस्कारादिति । न पुनस्तत्स्वीकारात् । बाधत इत्युक्तेस्तिरस्कारस्यैव साक्षाद्वाक्यार्थत्वात् । अत एव परैरपि तत्संबन्धितिरस्कारद्वारा तस्यैव बाधनादित्युक्तम् । प्रकर्षोऽप्रतीकार्यत्वम् । एतेन चास्य प्रयोजनं दर्शितम् । अत्र ह्यतिरस्कार्यतिरस्करणातिरस्करणकर्तुर्निन्दाद्वारेण बलवत: प्रतिपक्षस्य प्रतीकार्यत्वात्स्तुति- . प्रतिपादने तात्पर्यम् । उपमानस्येत्यादि । कैमर्थक्येनेत्यादि । तद्व्यापारस्योपमेयेनैव कृतत्वादनुपयोगेनेत्यर्थः । उपमानान्तरेति । उपमानानां मध्ये | अनादरणार्थमिति । उपमानत्वेन नैतद्योग्यमिति यावत् । पूर्वोक्तगत्येति । उपमेयस्यो - पमानप्रतिकूलवर्तित्वात् । अनेनोभयत्रापि नैतत्संज्ञामात्रमित्युक्तम् । एकं द्वितीयमित्यभिदधता ग्रन्थकृता प्रतीपाख्यमलंकारद्वयं पुनः सामान्यलक्षणाभावादेकमेव द्विप्रकारमित्युक्तम् । उपमाप्रकारत्वं चानयोर्न वाच्यम् । उपमानस्याक्षेपादुपमेयकल्पनाच्च । न हि तत्र तदस्तीति ततोऽनयोः सुप्रत्यय एव भेदः । अनयोः पुनः साधर्म्यजीवितत्वात्साधारणधर्माणामस्ति त्रैविध्यम् । एवमौपम्यमन्तरेण नैतदलंकारद्वयं भवतीत्यवगन्तव्यम् । तेन 'णिद्दश्च वन्दिज्जिअ किं किरऊ देवआहिं अण्णाहिं । जिइ पसाएण पिओ लघइ दूरेविणिवसन्तो ॥ इत्यत्रापि प्रतीपालंकारत्वं न वाच्यम् । अत्र हि देवतान्तराणां तथा सामर्थ्यादर्शनात्तदाक्षेपेण स्वप्नकाले प्रियोपलब्धिदायिन्या निद्राया विरहिणीकर्तृकं वास्तवमेव वन्द्यत्वम् । वस्तु च नालंकार इति निर्विवादः । कुवलयदलदानामाक्षेपश्चक्षुषामत्यन्तमेव तत्साधर्म्यप्रतिपादनार्थः । अन्यथा हि तदाक्षेपो निरर्थकः स्यात् । एवं 'किं कर्णपूरैर्यदि साधुवादा मुक्ताफलैः किं यदि वाग्विलासाः । किं चूर्णयोगैर्यदि रूपशोभा लावण्यमास्ते यदि चन्दनैः किम् ॥' इत्यत्रापि ज्ञेयम् । अत्र हि यथा कर्णपूरादिभिः श्रोत्रशोभा कि १. 'तिरस्कारकर्तुः' ख.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy