________________
काव्यमाला।
___ तत्सौकर्यार्थ घनगर्जितस्य कारणान्तरस्य प्रक्षेपः । सौकर्य चोपकारायेति पदे प्रकाशितम् ।
एवं बाह्यन्यायाश्रयिणोऽलंकारान्प्रतिपाद्याधुना लोकन्यायाश्रयिणोऽलंकारा उच्यन्ते । तत्र
प्रतिपक्षतिरस्काराशक्तौ तदीयस्य तिरस्कारः प्रत्यनीकम् ।
यत्र बलवतः प्रतिपक्षस्य दुर्बलेन प्रतिपक्षेण प्रतीकारः कर्तुं न शक्यते इति तत्संबन्धिनो दुर्बलस्य तं बाधितुं तिरस्कारः क्रियते तत्प्रत्यनीकम् । अनीकस्य सैन्यस्य प्रतिनिधिः प्रत्यनीकमुच्यते । तत्तुल्यत्वादिदमपि प्रत्यनीकमुच्यते ।
यथानीकेऽभियोक्तव्ये तत्रासामर्थ्यात्तत्प्रतिनिधिभूतमन्यदभियुज्यते । तद्वदिह प्रतिपक्षे विजेये तदीयस्य दुर्बलस्य तिरस्करणमित्यर्थः । प्रतिपक्षगतत्वेन बलवत्त्वख्यापनं प्रयोजनम् । यथा
रणस्य भेदद्वयमपि ज्ञेयम् । प्रागिति समुच्चये । हेतुरिति । प्रकृतः । तत्सौकार्थमिति । सुखेन कार्यनिष्पत्यर्थमित्यर्थः । यद्याकस्मिकघनगर्जितयोगो न स्यात्तनिरासमाननिराकरणं न सिद्ध्येत् । एतच्च प्रथमप्रकारस्योदाहरणम् । द्वितीयस्य यथा-'स्त्रैणं लीलाभरणमभितस्त्रोटयित्वा श्रमाम्भः शक्त्या पत्रावलिमृगमदव्यञ्जितश्मश्रुदेहः । केलिक्षोभः कुवलयदृशां मान्मथे कार्यभावे पुंवद्भावं घटितमभितः पारिपूर्ण्य निनाय ॥' अत्र स्वेदादिना घटितस्यापि पुंवद्भावस्य केलिक्षोभाख्येन कारणान्तरेण स्त्रैणाभरणत्रोटनादिना स्वरूपोपचयाधानात्समाधिः । एवमेवमादावव्यापकमेतलक्षणमिति यदन्यैरुक्तं तत्तेषामे. तल्लक्षणस्वरूपानवधारणमेवेत्यलं बहुना । एतदुपसंहरन्नन्यदवतारयति-एवमित्यादिना । तति निर्धारणे । प्रतिपक्षेत्यादि । एतदेव व्याचष्टे-यत्रेत्यादिना । बलवत इति दुर्बलेनेति च प्रतीकाराकरणे विशेषणद्वारेण हेतुद्वयोपन्यासः । तत्संबन्धिन इति। बलवत्प्रतिपक्षमत्कस्य । तत्संबन्धित्वं च सादृश्यादिसंबन्धमूलम् । दुर्बलस्येति। तस्यापि हि बलवत्वे दुर्बलेन प्रतिपक्षेन प्रतीकारः कर्तुं न शक्यत इति भावः । तमिति । सबलं प्रतिपक्षम् । बाधितुमिति । अन्यथा हि निष्प्रयोजनस्तदीयतिरस्कारः स्यात् । क्रियत इति । दुर्बलेन प्रतिपक्षेण । नैतत्संज्ञामात्रमित्याशङ्कयाह-अनीकस्येत्यादि । तुल्यत्वमेव दर्शयति-यथेत्यादि । किं चात्र प्रयोजनमित्याशङ्कयाह-प्रतिपक्षे.
१. 'बाधयितुं' ख. १. 'मेघधनगर्जित' क. २. 'एवमादौ' ख. ३. 'कर्तुं शक्यः' ख.