SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ अलंकारसर्वस्वम् । अत एवान्यैरेवमादौ सहचरभिन्नोऽर्थदुष्ट एवेत्युक्तम् । प्रकृते तु नृ. पाङ्गनगतत्वेन शोभनत्वं खलत्वेनाशोभनत्वमिति समर्थनीयम् । एवमपि विशेष्यस्य शोभनत्वं प्रक्रान्तम् । विशेषणस्य त्वशोभनत्वमिह त्वन्यथेति न सर्वथा निरवद्यम् । ननु 'दुर्वाराः स्मरमार्गणाः' इत्युक्तोदाहरणवत्कथं न सदसद्योगः । नैतत् । इह शोभनस्य सतोऽशोभनत्वमिति विवक्षा । तत्र त्वशोभनमेवैतदिति विवक्षितमित्यस्त्यनयोर्भेदः । अत एवैकत्रोपसंहृतं 'मनसि सप्तशल्यानि' इति । सुन्दरत्वेनान्तःप्रविष्टानामपि व्यथाहेतुत्वात् । अपरत्र तु 'कथं सोढव्यः' इति सर्वथा दुष्टत्वाभिप्रायेण । तस्मादस्ति प्रकारत्रयस्य विविक्तविषयत्वम् । कारणान्तरयोगात्कार्यस्य सुकरत्वं समाधिः। केनचिदारब्धस्य कार्यस्य कारणान्तरयोगात्सौकर्य सम्यगाधानात्समाधिः । समुच्चयसादृश्यात्तदनन्तरमुपक्षेपः । तद्वैलक्षण्यं तु प्राक्प्रतिपादितमेव । उदाहरणम् 'मानमस्या निराकर्तुं पादयोर्मे पतिष्यतः। उपकाराय दिश्वेदमुदीर्ण घनगर्जितम् ॥ माननिराकरणे कार्ये पादपतनं हेतुः। शोभनानामुपक्रमेऽप्यशोभनस्य निर्देशात् । अत एवेति । सौन्दर्यनिमित्तत्वाभावात् । अन्यैरिति । काव्यप्रकाशकारादिभिः । तत्तु यथा-'श्रुतेन बुद्धिर्व्यसनेन मूर्खता मदेन नारी सलिलेन निम्नगा। निशा शशाङ्केन धृतिः समाधिना नयेन चालंक्रियते नरेन्द्रता ॥' अत्र श्रुतिधृतिबुद्ध्यादिभ्य उत्कृष्टेभ्यः सहचरेभ्यो व्यसनमूर्खतयोनिकृष्टयोभित्रत्वम् । एवमपीति । सत्यामप्यस्यां समर्थनायाम् । न समथैति । अनेनापि मार्गेण क्रमभेदोपपत्तेः । असद्योगसदसद्योगी भेदयति नन्वित्यादिना । इहति । प्रकृते सदसद्योगोदाहरणे । तत्रेति । असद्योगोदाहरणे । अत एवेति । शोभनस्य सतोऽशोभनत्वेन विवक्षणात् । सोढव्य इत्युपसंहृतमित्यत्रापि संबन्धनीयम् । एतदेवोपसंहरतितस्मादित्यादिना । प्रकारत्रयस्येति । प्रकारद्वयस्य तावद्भेद उक्तस्तद्वचनादेव पारिशेष्यात्तृतीयस्यापि प्रकारभेदः प्रतिपादितो भवतीत्येतदुक्तम् । कारणेत्यादि । एतदेव व्याचष्टे-केनचिदित्यादिना । सौकर्यमिति । कार्यस्य सुखेनानायासमेव प्रकृतकारणवशेन निष्पन्नवेऽपि स्वरूपोपचयाधायकत्वेनाकृच्छ्रार्थस्योपलक्षणपरत्वेन विवक्षितत्वात्सुष्ठ वा करणमित्यर्थः । अत एव कारणान्तरयोगात्कार्यस्य सुखेन सुष्ठ वा का.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy