SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ १६२ काव्यमाला | अत्रामालिन्येन शोभनस्य कुलस्य मूर्त्यादिभिः शोभनैः समुच्चयः । एकैकं च दर्पहेतुतायोग्यं तत्स्पर्धया निबद्धम् । यथा'दुर्वाराः स्मरमार्गणाः प्रियतमो दूरे मनोऽत्युत्सुकं गाढं प्रेम नवं वयोऽतिकठिनाः प्राणाः कुलं निर्मलम् । स्त्रीत्वं धैर्यविरोधि मन्मथसुहृत्कालः कृतान्तोऽक्षमो नो सख्यश्चतुराः कथं नु विरहः सोढव्य इत्थं शठः ॥' अत्र दुर्वारत्वेनाशोभनानां स्मरमार्गणानां तादृशैरेव प्रियतमादूरत्वादिभिः समुच्चयः । नववयः प्रभृतीनां च यद्यपि स्वतः शोभनत्वम्, तथापि विरहविषयेनात्राशोभनत्वं ज्ञेयम् । सदसतः शोभनाशोभनस्य तादृशेन सदसता समुच्चीयमानेन योगो यथा - 'शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं स्वाकृति । प्रभुर्धनपरायणः सततदुर्गतः सज्जनो नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे ॥' अत्र शशिनः स्वतः शोभनस्यापि दिवसधूसरत्वादशोभनत्वेन सदसतस्तादृशैरेव कामिनीप्रभृतिभिः समुच्चयः । नत्वत्र कश्चित्समुच्चीयमानः शोभनः । अन्यस्त्वशोभन इति सदसद्योगो व्याख्येयः । ननु नृपाङ्गनगतः खल इत्यशोभनोऽन्ये त्वशोभना इति कथं समुच्चीयमानस्य सतस्तादृशेनासता योगः । नैतत् । 'नृपाङ्गनगतः खल:' इति प्रत्युत प्रक्रमभङ्गाद्दुष्टमेव । न तु सौन्दर्यनिमित्तमित्युपक्ष्यमेवैतत् । लनात्मकं सौकर्ये हरिदर्शनस्यापि सोपानारोहणपरिश्रमस्पर्धतया तत्कारित्वमात्रस्यैव विवक्षितत्वात् । अत एव 'णवोवाच्छिण्णा' इत्युक्तम् । शोभनैरिति । भद्रत्वादिति योगात् । ननु दूरनिर्वासितत्वादिना प्रियादीनां यद्यशोभनत्वं तत्कथं नववयः प्रभृतीनामपीत्याशङ्कयाह — नवेत्यादि । तादृशैरेवेति । सदसद्भिः । कामिन्यादीनां स्वतः शोभनानामपि गलितयौवनादेरशोभनत्वात् । अन्यथा पुनरत्र सदसद्योगो व्याख्येय इत्याशङ्कयाह – नन्वित्यादि । तादृशेनेति । समुच्चीयमानेनेत्यर्थः । प्रक्रमभेदादिति । १. ‘स्वाकृतेः' ख. २. ‘इत्युत्प्रेक्ष्यमेवैतत् ' क.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy