________________
काव्यमाला ।
'यत्र च प्रमदानां चक्षुरेव सहनं मुण्डमालामण्डनं भारस्तु कुवलयदलमाल्यानि' इत्यादि । यथा वा'लावण्यौकसि सप्रतापगरिमण्यग्रेसरे त्यागिनां
देव त्वय्यवनीभरक्षमभुजे निष्पादिते वेधसा । इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं
चिन्तारत्नमहो मुधैव किममी सृष्टाः कुलक्ष्माभृतः ॥' अत्र यथासंख्यमप्यस्तीति प्राक्प्रतिपादितम् । 'ए एहि दाव सुन्दरि कण्णं दाऊण सुणसु वअणिजम् । तुज्झ मुहेण किसोअरि चन्दो उअमिजइ जणेण ॥'
अत्रोपमानत्वेन प्रसिद्धस्य चन्द्रमसो निकर्षार्थमुपमेयत्वं कल्पितम् । वदनस्य चोपमानत्वविवक्षात्र प्रयोजिका । क्वचित्पुनर्निष्पन्नमेवौपम्यमनादरकारणम् । यथा
यते तथैव साधुवादादिभिरिति साधुवादादिभिरेव तत्कार्यकरणात्कर्णपूरादीनामाक्षेपः । तस्य च साधुवादादीनामत्यन्तमेव तत्साधर्म्यात्प्रतिपादनं फलम् । एवं 'खेलन्तीनां सुरपतिपरीवारवाराङ्गनानां यन्मञ्जीरध्वनितसुभगो रौति कोलाहलोऽयम् । तेनैवास्ते मदननृपतेर्माङ्गलिक्ये प्रबोधे मोघायन्ते पथि पथि गिरः कच्छपारावतानाम् ॥' इत्यत्रापि ज्ञेयम् । यत्पुनरत्रान्यैरुपमानोपमेयत्वस्याविवक्षितत्वमुक्तम्, तत्तेषां तत्स्वरूपानभिज्ञत्वम् । लावण्यादिधर्मश्चात्र नृपचन्द्रयोरनुगामितया निर्दिष्टः । यथा वा-'तस्याश्चेन्मुखमस्ति सौम्यसुभगं किं पार्वणेनेन्दुना सौन्दर्यस्य पदं दृशौ यदि च ते किं नाम नीलोत्पलैः । किं वा कोमलकान्तिभिः किसलयैः सत्येव तत्राधरे ही धातु: पुनरुक्तवस्तुरचनारम्भेष्वपूर्वो ग्रहः ॥' इत्यत्र सौम्यसुभगत्वादि सकृनिर्दिष्टम् । असकृनिर्देशस्तु यथा-'यद्यस्ति तस्याः स्मरशाभङ्गिविलासवेल्लद्भु मुख नताङ्गयाः। तदिन्दुना किं विहितं विधात्रा सृष्टेन व. लगन्मृगशावकेन॥' अत्र वेलद्वल्गत्वयोः शुद्धसामान्यरूपत्वं भ्रूमृगयोस्तु बिम्बप्रतिबिम्बभावः । निकर्षार्थमिति । अन्यथा चन्द्रस्योपमेयत्वकल्पनं निरर्थकं स्यात् । प्रयोजिकेति । उत्कर्षप्रतिपादनात् । अत्रापि साधारणधर्मस्यानुगामितया यथा—'मुखेन सखि पीयूषपेलवेन निशासु ते । उपमानतया चन्द्रं प्रियेणाशिष्यते ध्रुवम् ॥' अत्र पीयूषपेलवत्वमनुगामितयोपात्तम् । असकृनिर्देशस्तु यथा-'पौलस्त्य विस्तृतविवेल्लदपूर्वबभ्रुवर्चच्छटाप्रकटितं
१. 'अये एहि तावत्सुन्दरि कर्ण दत्वा शृणुष्व वचनीयम् । तव मुखेन कृशोदरि चन्द्र उपमीयते जनेन ॥' इति च्छाया. २. 'निष्पन्नमौपम्यम्'ख. ३. 'यथा' ख-पुस्तके नास्ति.