Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 173
________________ अलंकारसर्वस्वम् । 'गर्वमसंवाह्यमिमं लोचनयुगलेन किं वहसि भद्रे । सन्तीदृशानि दिशि दिशि सरःसु ननु नीलनलिनानि ॥' अत्रोत्कर्षभाज उपमानस्य प्रादुर्भाव एव न्यक्कारकारणम् । अनेन न्यानोत्कृष्टगुणत्वाद्यदुपमानभावमपि न सहते तस्योपमाभावत्वकल्पितं प्रती पमेव । यथा 'अहमेव गुरुः सुदारुणानामिति हालाहल तात मा स्म दृप्यः । ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानाम् ॥' अत्र हालाहलं प्रकृष्टदोषत्वादसंभाव्यमानोपमेयभावमप्युपमानत्वेन निबद्धम् । - १६७ वस्तुना वस्त्वन्तरनिगूहनं मीलितम् । सहजेनागन्तुकेन वा लक्ष्मणा यद्वस्त्वन्तरेण वस्त्वन्तरं निगृह्यते तद सृजताद्य च त्वाम् । नीतोऽञ्जनाद्रिरुपमेयधुरां विधात्रा प्रोत्तुङ्गशृङ्गविवलत्पृथुदाववह्निः ॥ अत्र वेल्लद्विवलत्वयोः शुद्धसामान्यरूपत्वम्, कूर्चदावयोस्तु बिम्बप्रतिबिम्बभावः । अस्य ह विच्छित्यन्तरं दर्शयति—कचिदित्यादिना । निष्पन्नमिति । सिद्धत्वेनोक्तेः । उत्क भाज इति । अर्थान्नेत्रयुगलस्य । प्रादुर्भाव इति । उपमानस्याभूतस्योत्पत्तिः । अत एव स्पर्धाबन्धभाजः परस्योत्पादाभ्यक्कारः । अनेन न्यायेनेति । अत्र यथोपमानत्वप्रादुर्भावो न्यक्कारकारणं तथैवेत्यर्थः । अतश्च पूर्वस्या एव विच्छित्तेरिदं विभजनं न पुनर्विच्छित्त्यन्तरमिति भावः । प्रतीपमिति । उपमानभावं यो न सहते तस्योपमानत्वपरिकल्पनेन प्रतिकूलवर्तित्वात् । यद्यपि प्रकृष्टगुणेनोपमानेन भाव्यं न्यूनगुणेन चोपमेयेन, तथापीदृशप्रकृष्टगुणत्वं विवक्षितं यदपेक्षया न्यूनगुणमप्युपमेयं न संभवतीत्यत्र पिण्डार्थः । ' वैकुण्ठाय श्रियमभिनवां शीतभानुं भवाय प्रादादुच्चैःश्रवसमपि वा वज्रिणे तत्क्क गण्यम् । तृष्णार्ताय स्वमपि मुनये यद्ददाति स्म देहं कोऽन्यस्तस्माद्भवति भुवने वारिधेर्बोधिसत्त्वः ॥' इत्यत्र पुनरन्यमतेऽपि न प्रतीपम् । लक्ष्म्यादेरधिकगुणस्य न्यूनगुणेनावतारत्वापादनाभावात् । अत्र हि लक्ष्म्यादिदानाद्देहदानस्याधिकगुणत्वं विवक्षितम् । अत एवाम्बुधेः स्वदेहदानमुत्प्रेक्ष्य को नाम लक्ष्म्यादिदानेनोत्कर्ष इत्यत्र वाक्यार्थः । एतच्च वस्त्विति नालंकार इत्यलमतिविस्तरेण । वस्तुनेति । लक्ष्मणेति । चिह्नरूपेण धर्मेणेत्यर्थः । तस्य हि सहजागन्तुकत्वेन द्विविधत्वादस्यापि द्विप्रकारत्वमस्तीत्यनेनोक्तम् । ननु वस्त्वन्तरस्य १. 'तस्यैवोपमानभावकल्पने' ख. १. 'तस्योपमेयत्वपरिकल्पनेन' इति भाति. २. 'अभिनव' ख.

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218