________________
१६८
काव्यमाला। न्वर्थाभिधानं मीलितम् । न चायं सामान्यालंकारः, तस्य हि साधारणगुणयोगाद्भेदानुपलक्षणं रूपम् । अस्य तूत्कृष्टगुणेन निकृष्टगुणस्य तिरोधानमिति महाननयोर्विशेषः । सहजेन यथा
'अपाङ्गतरले दृशौ मधुरवक्रवर्णा गिरो
विलासभरमन्थरा गतिरतीव कान्तं मुखम् । इति स्फुरितमङ्गकैर्मगदृशां स्वतो लीलया
यदत्र न मदोदयः कृतपदोऽपि संलक्ष्यते ॥ वस्त्वन्तरेण निगृहितत्वेनैकात्म्योपनिबन्धात्किमयं सामान्यालंकार एव न भवतीत्याश
याह-न चायमित्यादि । साधारणगुणयोगादिति । यदाहुः-'प्रस्तुतस्य यदन्येन गुणसाम्यविवक्षया । ऐकात्म्यं बध्यते योगात्तत्सामान्यमिति स्मृतम् ॥' इति । भेदानुपलक्षणमिति । प्रस्तुताप्रस्तुतात्मनः सदृशस्य वस्तुद्वयस्यासामान्याकारतया पृथगवगतस्याप्येकतरविशेषस्मरणादुभयविशेषाग्रहणाच्चैकतरत्वेनैव निश्चयोत्पादनाद्धटपटवढ्दो न प्रातिष्टकेन रूपेणानुपलक्षणं यथावगमनमध्यवसाय इत्यर्थः । यथा-राजगञ्जादौ शुक्तिकारजतयोः संनिकर्षण सामान्याकारतया पृथगवगमेऽप्येकतरविशेषस्मरणादुभयत्र विशेषाग्रहणात्कस्यचिदेकतरत्वेनैव निश्चयो जायते तथैवेहापि ज्ञेयम् । मीलिते पुनर्ग्युन गुणस्याधिकगुणेन तिरोहितत्वात्सामान्याकारकत्वेनाप्युभयावगमो न्यूनगुणाच्छादकतया तद्देशावष्टम्भेनाधिकगुणस्यैव प्रतिभासनात् । अत एवात्र मदोदयकृतस्य दृक्तारल्यादेर्नावगममात्रं तस्य मदोदयात्पूर्वमपि तथैवावस्थानात् । बलवता स्वाभाविकेन दृक्तारल्यादिनाच्छादितत्वात् । सामान्ये पुनः–'अभेदमूढस्तबकाभिरागता लताभिरीषल्ललितालि. पतिभिः । इयं पुरो मारुतनर्तितालका न लक्ष्यते व्यक्तमवामनस्तनी ॥' इत्यादौ निकुञ्जमध्यगताया योषितः पृथग्देशावष्टम्भेन सामान्याकारतयावगमेऽपि साधारणगुणयोगाल्लताभ्यो भेदेनानध्यवसायः । अत एव 'न लक्ष्यते व्यक्तम्' इत्याद्युक्तम् । अतश्च स्वरूपेणावगतस्यापि भेदानध्यवसायः । सामान्यं बलवता तिरोहितत्वात्स्वरूपानवगमो मीलितमिति स्थितम् । अत एवाह-महाननयोर्विशेष इति । एवं तर्हि समानगुणत्वस्याविशेषाद्वक्ष्यमाणोदाहरणादावभिसारिकादिवज्ज्योत्स्नादेरपि भेदानुपलक्षणं किं न स्यात् । ननूक्त एवात्र परिहारो यत्सुमनोगुणत्वेऽप्येकतरविशेषस्मरणादुभयविशेषाग्रहणाच्चेति एवमपि कथमिति चेत्, कस्यायं पर्यनुयोगः, किं ज्ञातुरुत ज्ञेयस्य वा । एतच्चाप्रस्तुतत्वान्नेहास्माभिरुक्तम् । इह च प्रस्तुतस्यैवाप्रस्तुताद्भेदेनानुपलक्षणं विवक्षितम् । तद्गतत्वेनैवाभेदद्वारेण
१. 'भेदः' क. १. 'बाध्यते' क. २. 'दृक्तारतम्यादेः' क.