SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ अलंकारसर्वस्वम् । १७१ निधानाख्ये हेतौ सत्यपि तद्रूपस्योत्कृष्टगुणस्याननुहरणं न्यूनगुणेनाननुवर्तनं भवति सोऽतद्गुणः । तस्योत्कृष्टगुणस्यास्मिन्गुणा न सन्तीति । यद्वा तस्याप्रकृतस्य रूपाननुपहारः सत्यननुहरणहेतौ सोऽतद्गुणः । तस्याप्रकृतस्य गुणा नास्सिन्सन्तीति कृत्वा । क्रमेण यथा 'धवलो सि जह वि सुन्दर तह वि तुए मज्झ रञ्जिअं हिअअम् । राअभरिए वि हिअए सुहअ णिहित्तो ण रत्तो सि ॥' 'गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः । राजहंस तव सैव शुभ्रता चीयते न च न चापचीयते ॥' पूर्वत्रातिरक्तहृदयसंपर्कान्नायकस्य धवलशब्दवाच्यस्य प्राप्तमपि रक्तत्वं न निष्पन्नमित्यतद्गुणः । उत्तरत्राप्रकृतस्य गाङ्गयामुनजलस्य संपर्केऽपि न तथा रूपत्वमित्ययमप्यतद्गुण एव । कार्यकारणभावस्य चात्राविवक्षणान्न विषमालंकारावकाशः। मलंकार इत्याह-यदेत्यादि । उत्कृष्टगुणस्येत्यनेन व्याख्यान्तरे द्वयोरपि गुणत्वं सूचि. तम् । एवं च प्राप्तेऽप्यन्यगुणस्वीकारे तदभावोऽयमलंकारः । यदुक्तम्-'तद्रूपाननुहारश्चेदस्य तत्स्यादतद्गुणः' इति । अस्मिन्निति । न्यूनगुणे । यद्वेति पक्षान्तरे । अप्रकृतस्येति । अननुदाहरणीयगुणस्यान्यस्य । तदेवं व्याख्यानद्वयेनास्य प्र. कारद्वयं दर्शितम् । अननुदाहरणाख्यस्य सामान्यस्यानुगमात् अतिरिक्तत्वेनात्युत्कृष्टगुणत्वं हृदयस्य दर्शितम् । अयमपीति । समानगुणत्वेनापीत्यर्थः । धवलो सीति । तत्तद्गुण एवेति ग्रन्थैकदेशस्तु क्वचिल्लेखकैः कल्पित इत्युपेक्ष्य एव । पुस्तकान्तरेष्वस्यादृष्टेः । न च गाथाव्याख्यानं प्रस्तुतं येनात्रालंकारान्तरस्यापि व्याख्यानं स्यात् । नाप्यत्र तगुणः । तस्य हि स्वगुणत्यागेनाप्यन्यगुणस्वीकारो लक्षणम् । न चात्र स्वगुणत्यागो नाप्यन्यगुणस्वीकारः । तस्य धवलत्वव्यभिचारात् । किं त्वत्र कारणाभावेऽपि कार्योत्पादनाद्विभावना, न तु विरूपकार्योत्पत्त्या विषमालंकारः । तत्र हि कार्यकारणयोर्विरूपत्वेऽप्यबाध्यमानतया प्रतीति: । इह त्वेकस्य बाध्यमानतयेति महाननयोर्भेदः । नन्वत्र सत्यपि कारणसामध्येऽन्यगुणानुदाहरणरूपस्य कार्यस्यानुत्पत्तेः किमयं विशेषोक्तिरेव न भवतीत्याशङ्कयाह-कार्येत्यादि । अविवक्षणादिति । वस्तुतस्तु संभवत्येव कार्यकारणभावः । अत एवालंकारसारकृता विशेषोक्त्यन्तर्भाव एवोक्तः । १. 'धवलोऽसि यद्यपि सुन्दर तथापि त्वया मम रञ्जितं हृदयम् । रागभरितेऽपि हृ. दये सुभग निहितो न रक्तोऽसि ॥' इति च्छाया.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy