________________
१७२
काव्यमाला ।
उत्तरात्मश्नोनयनमसकृदसंभाव्यमुत्तरं चोत्तरम् । यत्रानुपनिबध्यमानोऽपि प्रश्न उपनिबध्यमानादुत्तरादुन्नीयते तदेकमुतरम् । न चेदमनुमानम् । पक्षधर्मतादेरनुद्देशात् । यत्र च प्रश्नपूर्वकमसंभावनीयमुत्तरं तच्च न सकृत् तावन्मात्रे चारुत्वाप्रतीतेः । अतश्चासकनिबन्धे द्वितीयमुत्तरम् । __ न चेयं परिसंख्या । व्यवच्छेद्यव्यवच्छेदकपरत्वाभावात् । क्रमेण यथा
'एकाकिनी यदबला तरुणी तथाह
मस्मद्गृहे गृहपतिश्च गतो विदेशम् ।
अन्यकृता तु प्राच्यानुरोधाल्लक्षितः। विषमालंकार-' इति पाठस्तु पुस्तकान्तरेषु स्थितोऽप्यपायुक्तः । न हि कार्यकारणभावविवक्षामात्रेणात्र तत्त्वं स्यायेन तनिषेधेन तस्यानवकाशः । तस्य हि विरूपस्य कार्यस्यानर्थस्योत्पत्तिश्च लक्षणम् । उत्तरादित्यादि। उन्नीयत इति । प्रश्नरूपत्वेन संभाव्यत इत्यर्थः । ननु चाप्रतीतस्य प्रत्ययनात्किमिदमनुमानं न भवतीत्याशङ्कयाह-न चेदमित्यादि । असंभावनीयमिति । कविप्रतिभानिवर्तितमित्यर्थः । तदिति । प्रश्नपूर्वकमुत्तरम् । एवं प्रश्नस्याप्यसकृदेवोपनिबन्धो न्याय्यः । अतश्चेति । सकृदुत्तरस्य चारुत्वाप्रतीतेः । एवं समानन्यायत्वात्पूर्वत्राप्यनुपनिबध्यमानप्रश्नागरकमुत्तरं न सकृत्, तावन्मात्रेण चारुत्वाप्रतीरित्याश्रयणीयम् । ननु च प्रश्नोत्तररूपत्वादियं परिसंख्यैव किं न भवतीत्याशङ्कयाह-न चेयमित्यादि । एतच्चोत्तराख्यमलंकारद्वयम् । न पुनरेकः, सामान्यलक्षणायोगात् । एतच्चोदाहरणद्वयं ग्रन्थकृता प्राच्यमतानुरोधेन दत्तम् । वस्तुतस्त्वत्र नास्त्येतदलंकारद्वयम् । अत एवैतावतालंकारसारकारादिभिरेतदलंकारद्वयमपास्तम् । न च तद्युक्तम्, लक्षणदोषाभावात् । उदाहरणान्तरेष्वस्य प्रतिष्ठानात् । तत्तु यथा-'भिक्षो कन्था श्लथा किं ननु शफरवधे जालिकैषात्सि मत्स्यान्मध्ये मद्यावदंशं पिबसि मधु समं वेश्यया यासि वेश्याम् । हत्वारीन्कि करिष्ये कति तव रिपवः संधिभत्तास्मि येषां चोरस्त्वं द्यूतहेतोः कथमसि कितवो येन भिक्षुर्नमस्ते ॥' अत्र हि शफरबन्धजालिकैषेत्युत्तरान्मत्स्यादनरूपस्य प्रश्नस्योनयनम् । एवमन्यदपि ज्ञेयम् । 'येन दासीसुतोऽस्मि' इति पुनः पाठो ग्राह्यः । दासीसुतत्वे कितवस्य निमित्तत्वाभावात् । प्रश्नोत्तरोन्नयनस्यासमाप्तेः साकाङ्कत्वाद्वाक्यार्थस्यावि. श्रान्तेः । द्वितीयो यथा-'पुंसः संबोधनं किं विदधति करिणं के रुचोऽभिषक्किं का 'शून्या ते रिपूणां नरवर नरकं कोऽवधीत्कीडनं किम् । के वा वर्षासु न स्युस्तणमिव हरिणा किं नखानविभिन्नं विन्ध्याद्री पर्यटनको विघटयति तनुर्नर्मदावारिपूरः ॥' 'नर्मदा