SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ अलंकार सर्वस्वम् । कं याचसे तदिह वासमियं वराकी श्वश्रमान्धबधिरा नेनु मूढ पान्थ ॥' ' की विसमा देवगई कि लद्धं जं जणो गुणग्गाही । किं सोक्खं सुकलत्तं किं दुक्खं जं खलो लोओ ॥' १७३ पूर्वत्र मम वासो दीयतामिति प्रश्न उत्तरादुन्नीयते । उत्तरत्र दैवगत्यादिनिगूढत्वादसंभाव्यमसकृत्प्रश्नपूर्वकमुत्तरं निबद्धम् । इतः प्रभृति गूढार्थप्रतीतिपरालंकारलक्षणम्संलक्षितसूक्ष्मार्थप्रकाशनं सूक्ष्मम् । इह सूक्ष्मः स्थूलमतिभिरसंलक्ष्यो योऽर्थः स यदा कुशाग्रमतिभिरिङ्गिताकाराभ्यां संलक्ष्यते तदा तस्य संलक्षितस्य विदग्धं प्रति प्रकाशनं सूक्ष्ममलंकारः । तत्रेङ्गिताद्यथा 'संकेतकालमनसं विटं ज्ञात्वा विदग्धया । हसन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम् ॥' अत्र संकेतकालाभिप्रायो विटसंबन्धिना भ्रूक्षेपादिना इङ्गितेन लक्षितः रजनिकालभाविना लीलापद्मनिमीलनेन प्रकाशितः । आकाराद्यथा वारिपूर:' इति सभङ्गासभङ्गत्वेन त्रिरुत्तरम् । अत्र च यथोक्तमनुमान परिसंख्यावैलक्षण्यं सुस्पष्टमेवेति प्रन्थविस्तरभयान्नोक्तमिति ॥ अधुनालंकारान्तराणां लक्षणं कर्तुमुपक्रमते - इत इत्यादि । एतदेव व्याचष्टे - इहेत्यादि । इङ्गिताकाराभ्यां सूक्ष्मार्थसंलक्षणादस्य भेदद्वयमप्युक्तम् । एवं संलक्षितस्यार्थस्य प्रकाशनमयमलंकार इत्यत्र तात्पर्यम् । 'कुतोऽपि लक्षितः सूक्ष्मोऽप्यर्थोऽन्यस्मै प्रकाश्यते । धर्मेण केनचिद्यत्र तत्सूक्ष्मं परिदृश्यते ॥' किं च 'यत्र कर्णोत्पलन्यस्तहस्तदीपावलोकिनी । दृष्ट्वा वधूः प्रियोपान्ते सखीभिः प्रतिमुच्यते ॥' इत्येतद्वन्धप्रक्रिययालंकारोदाहरणजातं कुर्वताप्यलंकारभाष्यकृतासूक्ष्मालंकारे यत्तदनुगुणमुदाहृतं तत्रायमाशयः - यत्सूक्ष्मस्यार्थस्य संलक्षणमात्रं प्रका - शनमात्रं वाप्ययमेवालंकार इति । अत एवात्र सखीभिः सुरतोत्सुकत्वं संलक्षितम् । कर्णोत्पलन्यासादिना प्रकाशितमित्युभयार्थसहितत्वम् । तदेवमादौ सूक्ष्मालंकार एव १. 'न शृणोति कश्चित् क. २. ' का विषमा दैवगतिः किं लब्धं यजनो गुणग्राही । किं सौख्यं सुकलत्रं किं दुःखं यत्खलो लोकः ॥' इति च्छाया.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy