SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १७४. काव्यमाला । 'वक्रस्यन्दिस्वेदबिन्दुप्रबन्धैर्दृष्ट्वा भिन्नं कुङ्कुमं कापि कण्ठे । पुंस्त्वं तन्व्या व्यञ्जयन्ती वयस्या स्मित्वा पाणौ खड्गलेखां लिलेख ॥' अत्र स्वेदबिन्दुकृतकुङ्कुमरूपभिन्नेनाकारेण संलक्षितं पुरुषायितं पाणौ पुरुषोचितखड्गधारालिखनेन प्रकाशितम् । उद्विगन्नवस्तुनिगृहनं व्याजोक्तिः। यत्र निगूढं वस्तु कुतश्चिन्निमित्तादुद्भिन्नं प्रकटतां प्राप्तं सद्वस्त्वन्तरप्रक्षेपेण निगृह्यते अपलप्यते सा वस्त्वन्तरप्रक्षेपरूपस्य व्याजस्य वचनाव्याजोक्तिः । यथा'शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लस द्रोमाञ्चादिविसंस्थुलाखिलविधिव्यासङ्गभङ्गाकुलः । हा शैत्यं तुहिनाचलस्य करयोरित्यूचिवान्सस्मितं शैलान्तःपुरमातृमण्डलगणैर्दृष्टोऽवताद्वः शिवः ॥' अत्र रोमाञ्चादिनोद्भिन्नो रतिभावः शैत्यप्रक्षेपणेनापलपितः । यद्यप्यपहुतोऽपि सस्मितत्वख्यापनेन पुनरप्युद्भिन्नत्वेन प्रकाशितः । तथाप्यपलापमात्रचिन्तयास्यालंकारस्योल्लेखः । नन्वपहृतिग्रन्थे 'यथा सादृश्याय योऽपहवः सापहुतिः, तथापहवायापि यत्सादृश्यं साप्यपद्भुतिः' इति स्थापितम् । व्याजोक्तौ चोत्तरः प्रकारो विद्यते तत्कथमियमलंकारान्तरेण कथ्यते । सत्यम् । उद्भटसिद्धान्ताश्रयेणोत्तरत्रोक्तम् । न हि तन्मते व्याजोक्त्याख्य वाच्यः । सूक्ष्मस्यैवार्थस्य संलक्ष्यमाणत्वादिनावस्थानात् ॥ उद्भिन्नेत्यादि । निगूढमिति । वस्तुतः । वस्त्वन्तरप्रक्षेपेणेति । निमित्तान्तरकथनेनेत्यर्थः । रतिभाव इति । स्थायी । अपहृतोऽपीति । व्याजोक्तेः प्ररोहात् । अपला. पमात्रचिन्तयेति । तावन्मात्रस्यैव तल्लक्षणत्वात् । अस्याश्चापद्भुतेर्भेदं दर्शयितुमुपक्रमते-नन्वित्यादिना । स्थापितमिति । श्लेषग्रन्थे यदुक्तम् । ‘सादृश्यव्यक्तये यत्रापह्नवोऽसावपगुतिः' इति । एवमपह्नवग्रन्थ इति पूर्ववाक्य एव संबन्धनीयम् । उत्तरः प्रकार इति । अपह्नवाय सादृश्यं तदिति । उत्तरेणैव प्रकारेण व्याप्तत्वात् । कथमिति । निष्प्रयोजकत्वात् । एतदेवाप्युपगम्यं प्रतिविधत्ते-सत्यमित्यादिना । १. 'तत्तत्रोक्तम्' ख.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy