SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ अलंकारसर्वस्वम् । १८१ इह च लोकोत्तराणां वस्तूनां स्फुटतया ताटस्थ्येन प्रतीतौ कचित्तु लौ - किकानामपि वस्तूनां स्फुटत्वेन भाविकस्वभावोक्त्योः समावेशः स्यात् । न च हृदयसंवादमात्रेण स्वभावोक्तिरसवदलंकारयोरभेदः । वस्तुसंवादरूप - त्वात्स्वभावोक्तेः । चित्तवृत्तिसमाधिरूपत्वाच्च रसवदलंकारस्य । उभयसं-, वाददर्शनेऽपि समावेशोऽपि घटते । यत्र वस्तुगतसूक्ष्मधर्मवर्णनं स्यात्तत्र स्वभावोक्तिः, अन्यत्र तु रसवदलंकार एव । . हस्ते रत्नदीपाञ्जघृक्षतः । दृष्ट्वा हा हेति संभ्रान्ता धात्री चेटैर्विहस्यते ॥' अत्र धात्रीणामीयं स्वभाव इति वस्तुनिर्दिष्टो हृदयसंवादः । यथा वा - ' यदास्वाद्यं सीता वितरति तदग्रे स्वगृहिणे सुमित्रापुत्राय प्रणिहितविशेषं तदनु च । यदामं यत्क्षामं यदनतिरसं यच्च विरसं फलं वा मूलं वा रचयति तु तेन स्वमशनम् ॥' अत्रेदृगेव गृहिणीनां स्वभाव इति संवादः । स्फुटतयेति । पुरःस्फुरद्रूपतया । सा च प्रतीतिर्यथा—'निमीलितस्य पूर्णेन्दोः सुधायां पङ्किलाङ्गुली । यत्र मृत्युजितः पादौ भाव्येते भावितैः पुरः ॥' यथा च'दर्भाङ्कुरेण चरण: क्षत इत्यकाण्डे तन्वी स्थिता कतिचिदेव पदानि दैत्वा । आसीद्विवृत्त - वदना च विमोचयन्ती शाखासु वल्कलमसक्तमपि द्रुमाणाम् ॥' अत्र पादयोः शकुन्तलायाश्च शुद्धैव प्रत्यक्षत्वेन प्रतीतिः । ननु च यत्र स्वभावोक्तावपि प्रत्यक्षतया प्रतीतिस्तत्र किमित्याशङ्कयाह — क्वचिदित्यादि । समावेश इति । संसृष्टिरूपः संकररूपो वा । स तु यथा—' हेरम्भोऽत्र हरीश्वरे नखमुखैः कण्डूयमाने गलं कुर्वन्युच्छविवर्तनां निविरतो रोमन्थलीलावितात् । संमीलन्नयने विसंस्थुललसत्सास्नं नतोन्नामितग्रीवं निश्चलकर्णमीश्वरबलीवर्दः सुखं मन्यते ॥' अत्र वृषभस्य पुच्छविवर्तनादि सूक्ष्मधर्मवर्णनेन स्वभावोक्तिः, प्रत्यक्षायमानत्वेन भाविकमित्यनयोः समावेशः । स्वभावोक्तेरपि रसवदलंकारात्प्रसङ्गेन भेदं दर्शयति- न चेत्यादिना । हृदयसंवादो हि वस्तुचित्तवृत्तिगतत्वेन द्विविधः । तत्र स्वभावोक्तौ वस्तुसंवादः प्रदर्शितः । चित्तवृत्तिसंवादस्तु यथा - ' - 'चन्द्रांशुस्मेरधम्मिल्लमल्लि कानां प्रियं प्रति । सौधेषु नीतं रामाणां यत्रा लिभिरनूद्यते ॥' अत्र प्रियाभिलाषिणी नायिकाचित्तवृत्तिः सचेतसां स्वचित्तवृत्त्यभेदेन संवदतीति तत्संवादः । यत्र द्विविधोऽपि संवादस्तत्र किं प्रतिपत्तव्यमित्याशङ्कयाह – उभयेत्यादि । स च समावेशो यथा - 'किंचि - त्कुश्चितचञ्चुचुम्बनमुखस्फारीभवल्लोचना स्वप्ने मोदितचारुचाटुकरणैश्चेतोऽर्पयन्ती मुहुः । कूजन्ती विततैकपक्षतिपुटेनालिङ्गच. लीलालसं धन्यं कान्तमुपान्तवर्तिनमियं पारावतं सेवते ॥' अत्र पारावतयोः सूक्ष्मधर्मवर्णनेन स्वभावोक्तिः, चित्तवृत्तिविशेषाच्च रसवदलंकार इत्यनयोः समावेशः। अन्यत्रेति । यत्र वस्तुगतसूक्ष्मधर्मवर्णना न स्यात् । अनेन च १. 'प्रतीते' ख. १. 'गत्वा' ख.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy