Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 166
________________ १६० काव्यमाला | 'अयमेकपदे तया वियोगः प्रियया चोपनतोऽतिदुःसहो मे । नववारिधरोदयादहोभिर्भवितव्यं च निरातपत्ररम्यैः ॥' एतद्विभिन्नविषयत्वेनोदाहरणम् । एकाधिकरणत्वेनाप्ययमलंकारो दृ श्यते । यथा— 'बिभ्राणा हृदये त्वया विनिहितं प्रेमाभिधानं नवं शल्यं यद्विदधाति सा विधुरिता साधो तदाकर्ण्यताम् । शेते शुष्यति ताम्यति प्रलपति प्रम्लायति भ्राम्यति प्रेङ्खत्युल्लिखति प्रणश्यति दलत्युन्मूर्छति त्रुट्यति ॥' एवं गुणसमुच्चयेऽप्युदाहार्यम् । केचित्पुनर्न केवलं गुणक्रियाणां व्यस्त - त्वेन समुच्चयो यावत्समस्तत्वेनापि भवतीति वर्णयन्ति । उदाहरणम्'न्यञ्चत्कुञ्चितमुन्मुखं हसितवत्साकूतमाकेकरं व्यावृत्तं प्रसरत्प्रसादि मुकुलं सप्रेमकम्पं स्थिरम् | उद्भूभ्रान्तमपाङ्गवृत्ति विकचं मज्जत्तरङ्गोत्तरं चक्षुः सानु च वर्तते रसवसादेकैकमन्यक्रियम् ॥' अत्राकेकरादयो गुणशब्दा न्यञ्चदित्यादयः क्रियाशब्दा इति सामस्त्येन गुणक्रियायौगपद्यम् । प्रसादिप्रमेत्यादीनां समासकृत्तद्धितेषु संबन्धाभिधानमिति संबन्धस्य वाच्यत्वात् । तस्य च सिद्धरूपत्वेन गुणत्वाद्गुणशब्देन गुणयौगपद्यमिति अनेनैव चास्य गुणक्रियाणां युगपदवस्थितेर्भेदद्वयमप्युक्तम् । नैर्मल्यमालिन्ययोर्गुणयोरुपनमनभवनयोश्च क्रिययोर्यौगपद्येनावस्थानम् । विभिन्नविषयत्वेनेति । गुणादीनां बलमुखादिविषयगतत्वात् । अतश्च भिन्नाधिकरणोऽयं समुच्चयः । एकेत्यादि । यद्यप्यत्र शयनादीनां शोषणादीनां च क्रियाणामुपनमनभवनादिवत्कालान्तरभावित्वान्न यौगपद्येनावस्थानम् । तथापि तन्नैरन्तर्येण ज्ञेयम् । एवमिति । यथैवात्रैकविषयत्वेन शयनाद्याः क्रिया इत्यर्थः । तत्तु यथा— 'सितं ज्योत्स्नाजालैररुणरुचि संध्याकर भरैस्तमस्तोमैः श्यामच्छवि भपटलैः पीतमपि च । नभो नीलीनीलं रतिरमणलीलाविहरणे स्थली धात्रा चित्रं चतुरमधुना चित्रितमदः ॥' अत्र सितादीनां गुणानामेकाधिकरणत्वेन युगपदवस्थानम् । ननु च केकरादयो न्यञ्चदित्यादयश्च यदि गुणक्रियाशब्दास्तत्प्रसादीत्यादयः पुनः किं शब्दा इत्याशङ्कयाह–प्रसादीत्यादि । तस्येति । संबन्धस्य । एतदुपसंहरति१. 'निरातपत्व' ख.

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218