________________
१६०
काव्यमाला |
'अयमेकपदे तया वियोगः प्रियया चोपनतोऽतिदुःसहो मे । नववारिधरोदयादहोभिर्भवितव्यं च निरातपत्ररम्यैः ॥' एतद्विभिन्नविषयत्वेनोदाहरणम् । एकाधिकरणत्वेनाप्ययमलंकारो दृ
श्यते । यथा—
'बिभ्राणा हृदये त्वया विनिहितं प्रेमाभिधानं नवं
शल्यं यद्विदधाति सा विधुरिता साधो तदाकर्ण्यताम् । शेते शुष्यति ताम्यति प्रलपति प्रम्लायति भ्राम्यति प्रेङ्खत्युल्लिखति प्रणश्यति दलत्युन्मूर्छति त्रुट्यति ॥' एवं गुणसमुच्चयेऽप्युदाहार्यम् । केचित्पुनर्न केवलं गुणक्रियाणां व्यस्त - त्वेन समुच्चयो यावत्समस्तत्वेनापि भवतीति वर्णयन्ति । उदाहरणम्'न्यञ्चत्कुञ्चितमुन्मुखं हसितवत्साकूतमाकेकरं
व्यावृत्तं प्रसरत्प्रसादि मुकुलं सप्रेमकम्पं स्थिरम् | उद्भूभ्रान्तमपाङ्गवृत्ति विकचं मज्जत्तरङ्गोत्तरं
चक्षुः सानु च वर्तते रसवसादेकैकमन्यक्रियम् ॥' अत्राकेकरादयो गुणशब्दा न्यञ्चदित्यादयः क्रियाशब्दा इति सामस्त्येन गुणक्रियायौगपद्यम् ।
प्रसादिप्रमेत्यादीनां समासकृत्तद्धितेषु संबन्धाभिधानमिति संबन्धस्य वाच्यत्वात् । तस्य च सिद्धरूपत्वेन गुणत्वाद्गुणशब्देन गुणयौगपद्यमिति अनेनैव चास्य गुणक्रियाणां युगपदवस्थितेर्भेदद्वयमप्युक्तम् । नैर्मल्यमालिन्ययोर्गुणयोरुपनमनभवनयोश्च क्रिययोर्यौगपद्येनावस्थानम् । विभिन्नविषयत्वेनेति । गुणादीनां बलमुखादिविषयगतत्वात् । अतश्च भिन्नाधिकरणोऽयं समुच्चयः । एकेत्यादि । यद्यप्यत्र शयनादीनां शोषणादीनां च क्रियाणामुपनमनभवनादिवत्कालान्तरभावित्वान्न यौगपद्येनावस्थानम् । तथापि तन्नैरन्तर्येण ज्ञेयम् । एवमिति । यथैवात्रैकविषयत्वेन शयनाद्याः क्रिया इत्यर्थः । तत्तु यथा— 'सितं ज्योत्स्नाजालैररुणरुचि संध्याकर भरैस्तमस्तोमैः श्यामच्छवि भपटलैः पीतमपि च । नभो नीलीनीलं रतिरमणलीलाविहरणे स्थली धात्रा चित्रं चतुरमधुना चित्रितमदः ॥' अत्र सितादीनां गुणानामेकाधिकरणत्वेन युगपदवस्थानम् । ननु च केकरादयो न्यञ्चदित्यादयश्च यदि गुणक्रियाशब्दास्तत्प्रसादीत्यादयः पुनः किं शब्दा इत्याशङ्कयाह–प्रसादीत्यादि । तस्येति । संबन्धस्य । एतदुपसंहरति१. 'निरातपत्व' ख.