Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
अलंकारसर्वस्वम् ।
१६१
द्रष्टव्यम् । एवमयं त्रिधा समुच्चयः ।
एकं समुच्चयं त्रिप्रकारभिन्नं लक्षयित्वा द्वितीयं लक्षयति-
1
एकस्य सिद्धिहेतुत्वेऽन्यस्य तत्करत्वं च । समुच्चय इत्येव । यत्रैकः कस्यचित्कार्यस्य सिद्धिहेतुत्वेन प्रक्रान्तस्तत्रान्योऽपि यदि तत्स्पर्धया तत्सिद्धिं करोति तदायमपरः समुच्चयः । न चायं समाध्यलंकारेऽन्तर्भवति । तत्र ह्येकस्य कार्य प्रति पूर्ण साधकत्वम् । अन्यस्तु कार्याय काकतालीयेनापतति तत्र समाधिर्वक्ष्यते । यत्र तु खले कपोतिकया बहूनामवतारस्तत्रायं समुच्चयः । अतः सुमहान्भेदोsनयोः । स एष समुच्चयः सद्योगेऽसद्योगे सदसद्योगे च भवतीति त्रिधा भिद्यते । सतः शोभनस्य सता शोभनेन समुच्चीयमानेन यथा - 'कुलममलिनं भद्रा मूर्तिर्मतिः श्रुतिशालिनी
भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम् । प्रकृतिसुभगा एते भावा अमीभिरयं जनो
व्रजति नितरां दर्पं राजस्त एव तवाङ्कुशाः ॥'
एवमित्यादिना । त्रिधेति । गुणानां क्रियाणां गुणक्रियाणां च यौगपद्येनावस्थानात् । भिन्नाभिन्नाधिकरणत्वेन यो विशेषः स एतत्प्रपञ्च एवेतिन पृथगिहोपात्तः । लक्षयतीति । एकस्येत्यादिना । ए[कः] कस्यचिदिति । यत्र यादृशो विवक्षितस्य । स्प
येति । प्रक्रान्तस्य हेतोः । तत्सिद्धिमिति । कार्यनिष्पत्तिम् । अपर इति । पूर्वसमुच्चयात् । भिन्नलक्षणत्वात् । ननु यद्येवं तत्कथं वक्ष्यमाणलक्षणः समाधिरेवायं न भवतीत्याशङ्कयाह — न चेति । पूर्णमिति । अन्यनिरपेक्षमित्यर्थः । आकस्मिकमापततो हि कारणान्तरस्य सौकर्येण मुखेन स्वरूपोपचयाधायित्वेन सुष्टुकार्यनिष्पत्तिः प्रयोजनम् । समुच्चये पुनः स्पर्धयैव बहूनामेककार्यकारित्वम् । अत एवात्र खले कपोतिकति निदर्शनीयम् । एवं च - 'सोबाणा रुहण परिस्समेण कीस्टविजे विनिस्सरिआ । तेस्वि अहरिदः सनवइअरेणस्सा साणवाच्छिण्णाः ॥' इत्यादौ समुच्चय एव । सोपानारोहणपरिश्रमस्पर्धयैव हरिदर्शनरूपस्यापि कारणान्तरस्य तद्व्यवच्छेदनिषेधमुखेन श्वासकारित्वोपनिबन्धात् । अत एवात्र न समाधिः । तस्य हि काकतालीयेनापतता कारणान्तरेण कार्यसौकर्य लक्षणम् । न चात्रैतत्संभवति । न ह्यत्र काकतालीयेन हरिदर्शनरूपस्य कारणान्तरस्यापतनम् । तदर्थमेव सोपानारोहणस्योपक्रान्तत्वात् । नापि तद्योगात्कार्यस्योपोद्व१. पुस्तकद्वयेऽप्येषा गाथास्फुटैव.
२१

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218