Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
अलंकारसर्वस्वम् ।
'भक्तिप्रह्नविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी ध्यानालम्बनतां समाधिनिरतैनीते हितप्राप्तये । लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः ॥' अत्र नेत्रे तनुर्वेति विकल्पः । उत्तमत्वाच्च तुल्यप्रमाणं श्लिष्टत्वम् । न चात्र समुच्चये वाशब्दः । संभवन्त्यामपि गतौ महाकविव्यवहारे तथा प्रयोगाभावात् । ननु विरोधनिमित्तो विकल्पः कथं चात्र विरोधः । नैतत् । तनुमध्ये नेत्रयोः प्रविष्टत्वात्तयोः पृथगभिधानमेव [न] कार्यम् । कृतं च तत्स्पर्धिभावं गमयति । स्पर्धिभावश्च विरुद्धत्वम् । नेत्रे अथवा समस्तमेव शरीरमित्यर्थावगमे विरोधस्य सुप्रत्येयत्वात् । स चात्र श्लेषाच्लिष्टः । लिङ्गश्लेषस्य वचनश्लेषस्य चात्र दृष्टेः । तस्मात्समुच्चयप्रतिपक्षभूतो विकल्पाख्योऽलंकारः । पूर्वैरकृतविवेकोऽत्र दर्शित इत्यवगन्तव्यम् ।
9
१५९
गुणक्रियायौगपद्यं समुच्चयः ।
गुणानां वैमल्यादीनां यौगपद्येनावस्थानम्, तथैव क्रियाणां च समुच्चयो - ऽलंकारः । विकल्पप्रतिपक्षेणास्य स्थितिः । क्रमेणं यथा'विदलितसकलारिकुलं तव बलमिदमाशु विमलं च । प्रखलमुखानि नराधिप मलिनानि च तानि जातानि ॥'
उत्तमत्वादिति । द्वयोरपि भगवत्संबन्धित्वेन भवार्तिशमनकरणसामर्थ्येन समत्वात् । ननु च नेत्रे च तनुश्चेत्यत्र समुच्चय एव किं न भवतीत्याशङ्कयाह - न चात्रेत्यादि । गताविति । वाशब्दस्य समुच्चयार्थलक्षणायाम् । तथेति । समुच्चयार्थपरतयेत्यर्थः । न ह्यत्र समुच्चयार्थो विवक्षितः । एवमत्र विरोधाभावात्कथं विकल्पोऽपि न भवतीत्याह - नन्वित्यादि । न कार्यमिति । तन्वभिधानेनैव नेत्रयोः स्वीकृतत्वात् । कृतमिति । पृथगभिधानम् । स्पर्धिभावमिति । अन्यथा हि पृथगभिधानं निष्प्रयोजनं स्यात् । स्पर्धिभावादिति । तुल्यत्वात् । अ (सु) प्रत्येयत्वादिति । सुष्टुत्वेन विरुद्धस्य कष्टकल्पनानिरासः कृतः । स इति । विकल्पः । एतदेवोपसंहरति — तस्मादित्यादिना । समुच्चये द्वयोरपि युगपदवस्थानमिह त्वन्यथेत्यस्य तत्प्रतिपक्षभूतत्वम् । अनेनास्य ग्रन्थकृदुपज्ञत्वमेव दर्शितम् । गुणक्रियेत्यादि । तथैवेति । यौगपद्यावस्थानेनेत्यर्थः ।
१. 'निमित्तको' ख. २. 'विकल्पस्य' ख. ३. 'स चात्र श्लेषः श्लिष्ट' ख. ४. 'इ'त्यवधातव्यम्' ख.

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218