Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 141
________________ अलंकारसर्वस्वम् । १३५ द्राक्पर्याप्तकपालसंपुटमितब्रह्माण्डमाण्डोदर भ्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति ॥' पूर्वत्र नभस आश्रयस्य वैपुल्येऽप्याश्रितानां द्युप्रभृतीनां पारिमित्यं चारुत्वहेतुः । उत्तरत्र तु टांकारध्वनेराश्रितस्य महत्त्वेऽपि ब्रह्माण्डस्याश्रयस्य स्तोकत्वम् । परस्परं क्रियाजननेऽन्योन्यम् । इहापि विरोधप्रस्ताव एव निर्देशकारणम् । परस्परजननस्य विरुद्धत्वात्। क्रियाद्वारकं यत्र परस्परोत्पादकत्वं न स्वरूपनिबन्धनं स्वरूपस्य तथात्वोक्तिविरोधात् तत्रान्योन्याख्योऽलंकारः । यथा 'कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकपालस्य च निस्तलस्य । अन्योन्यशोभाजननाद्बभूव साधारणो भूषणभूष्यभावः ॥' न पुनर्वास्तवम् । तेन चारुत्वाप्रतीतेः । तेन नभसो द्युप्रभृतीनां चान्योन्यापेक्षया वैपुल्यं पारिमित्यं च वास्तवमेवेत्यनुदाहरणमेतत् । तदुदाहरणान्तरमन्वेष्यम् । तत्तु यथा-'रणरणअगुणिअमुजत्तणम्मि तणुई समुद्दगहिरम्मि । मेरुअडवच्छसः तुज्झ हिअए कहं णु ठाई ॥' अत्र हृदयस्य महत्त्वं तन्वाश्च तनुत्वमित्याधाराधेययोरननुरूप्यम् । परस्परमित्यादि । ननु यदि परस्परजननस्य विरुद्धत्वं तत्कथमस्यालंकारत्वमित्याशङ्कयाह-क्रियेत्यादि । क्रियाशब्देनात्र धर्मो लक्ष्यते । अन्यथा-'प्रकाशः कोऽपि कैलासशैलपूर्णेन्दुविम्बयोः । उदियाय तदान्योन्यपटुत्वजननक्रमात् ॥' इत्यादौ गुणात्मकपटुत्वमुखेन परस्परजननेऽप्यव्याप्तिः स्यात् । परस्परोत्पादकत्वमिति । परस्परनिष्पादकत्वमित्यर्थः । एवं चानेन जननस्य क्रियासामान्यात्मककारणार्थत्वं दर्शितम् । तेन-'प्रियतमहृदयं विवेश तन्वी परयुवतिप्रसरापसारणाय । अतिसुभगतया हरन्तु मान्या इति च निजे हृदये निवे. शयन्तम् ॥' इत्यत्र परस्परं हृदयानुप्रवेशस्ताभ्यां कृत इति प्रतीतेः पर्यवसानात्परस्परजंननस्याव्यापकत्वं न वाच्यम् । 'विपर्ययं पूर्वकथाद्भुतस्य चालुक्यभूपालशरश्चकार । पपात यन्नष्टधृतिर्वराहस्त विह्वलाङ्गं वसुधा बभार ॥' इत्यत्र पुनरादिवराहवृत्तान्तवैलक्षण्यमात्रस्य विवक्षितत्वादन्योन्यालंकार एव नास्तीति कस्य व्यापकत्वं वा स्यात् । एवमन्यत्रापि ज्ञेयम् । तथात्वोक्तिविरोधादिति । इतरेतराश्रयदोषलक्षणात् । यदि पुनरत्र विरोधसमाधिर्भवेत्तदालंकारत्वमपि स्यादिति भावः । यथा-'धनेन जायते . १. 'विरुद्धश्रद्धत्वात्' क. २. 'परस्परोपपादकत्वं' ख. १. 'यदा' क. २. 'जननस्य व्यापकत्वं' ख.

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218