Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 142
________________ काव्यमाला। अत्र शोभाक्रियामुखकं परस्परजननम् । अनाधारमाधेयमेकमनेकगोचरमशक्यवस्त्वन्तरकरणं विशेषः । इहाधारमन्तरेणाधेयं न वर्तत इति स्थितावपि यस्तत्परिहारेणाधेयस्योपनिबन्धः स एको विशेषः । यच्चैकं वस्तु परिमितं युगपदनेकधावर्तमानं क्रियते स द्वितीयो विशेषः । यच्च किंचिदारभमाणस्यासंभाव्यवस्त्वन्तरकरणं स तृतीयो विशेषः । आनुरूप्यपरिहाररूपविरोधप्रस्तावादिहोक्तिः । क्रमेण यथा 'दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् । रमयन्ति जगन्ति गिरः कथमिव कवयो न ते वन्द्याः ॥' प्रज्ञा प्रज्ञया जायते धनम् । प्रज्ञाथी जीवलोकेऽस्मिन्परस्परनिबन्धनम् ॥' अत्र प्रज्ञा. धनयोः स्वरूपस्य परस्परं जननम् । देशकालभेदाद्विरोधसमाधिः । शोभाक्रियेति । सैव ह्यत्र परस्परनिमित्तम् । अनाधारमित्यादि। एतदेव व्याचष्टे-इहेत्यादिना । तत्परिहारेणेति । आधारव्यतिरेकेणेत्यर्थः । परिमितमित्यव्यापकम् । व्यापकस्य हि युगपदनेकत्र स्थितिर्वस्तुसंभविनीति तत्र नालंकारत्वम् । किंचिदिति यत्र यादृग्विवक्षितम् । न केवलमारब्धस्य वस्तुनो निष्पत्तिर्यावदसंभाव्यस्यापि वस्त्वन्तरस्येत्यत्र तात्पर्यार्थः । तच्च वस्त्वन्तरं चिकीर्षितं भवत्यचिकीर्षितं वा । एवं च 'फलान्तरस्य निष्पत्तिश्चिकीर्षाविरहेऽपि या । स विशेषश्चिकीर्षायां प्रसङ्गस्तु ततः पृथक् ॥' इत्याधुक्तयुक्त्या प्रसङ्गादन्यार्थः । प्रसङ्ग इति । प्रसङ्गाख्यमलंकारत्वं न वाच्यम् । न हि चिकीर्षितत्वमचिकीर्षितत्वं वा कश्चिद्विच्छित्तिविशेषो येनालंकारान्तरत्वं स्यात् । यावता यत्रासंभाव्यस्य वस्त्वन्तरस्य विच्छित्तिर्विवक्षिता सा चात्र स्थितेति किं चिकीर्षितत्वाचिकीर्षितत्वकल्पनेन । तस्मात् 'अङ्गेषु सान्द्रहरिचन्दनपङ्कचर्चा मार्णालहारवलयादि च पान्थवध्वाः । योऽभूद्दिवा पतिवियोगविषाददम्भो ज्योत्स्नाभिसारपरिकर्म स नक्तमासीत् ॥' इत्यत्र हरिचन्दनचर्चादिना न केवलं पतिवियोगविषाददम्भः कृतो यावदभिसारिकापरिकर्मापि कृतमित्यशक्यवस्त्वन्तरकरणात्मैवायं विशेषः । विशेषाश्चात्र त्रयो न पुनरेकस्त्रिविधः । लक्षणस्य भिन्नत्वात् । उचितस्य तु विशिष्टत्वस्य भावात्रयाणामपि विशेषत्वम् । गिरामत्र कविस्वभावादन्यत्र भावः । शंभोश्च लोकोत्तरवस्तुसंपादनं वास्तवमेवेति विशेषमत्रान्ये न मन्यन्ते । एतावतैव पुनरस्याभावो न वाच्याः । उदाहरणान्तरेष्वस्य संभवात् । तानि तु यथा-'अङ्गानि चन्दनरसादपि शीतलानि चन्द्रातपं वमति बाहुरयं यशोभिः । चालुक्यगोत्रतिलक व वसत्यसौ १. 'प्रवृत्तिनिमित्तम्' ख. २. 'प्रसंख्यालंकारान्तरं' ख. ३. 'ह्यत्रासद्भावस्य' ख. ४. 'निष्पतिः' ख. ५. 'अङ्गानि-तथा च' इति ख-पुस्तके त्रुटितम्.

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218