________________
काव्यमाला।
अत्र शोभाक्रियामुखकं परस्परजननम् । अनाधारमाधेयमेकमनेकगोचरमशक्यवस्त्वन्तरकरणं विशेषः ।
इहाधारमन्तरेणाधेयं न वर्तत इति स्थितावपि यस्तत्परिहारेणाधेयस्योपनिबन्धः स एको विशेषः । यच्चैकं वस्तु परिमितं युगपदनेकधावर्तमानं क्रियते स द्वितीयो विशेषः । यच्च किंचिदारभमाणस्यासंभाव्यवस्त्वन्तरकरणं स तृतीयो विशेषः । आनुरूप्यपरिहाररूपविरोधप्रस्तावादिहोक्तिः । क्रमेण यथा
'दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् ।
रमयन्ति जगन्ति गिरः कथमिव कवयो न ते वन्द्याः ॥' प्रज्ञा प्रज्ञया जायते धनम् । प्रज्ञाथी जीवलोकेऽस्मिन्परस्परनिबन्धनम् ॥' अत्र प्रज्ञा. धनयोः स्वरूपस्य परस्परं जननम् । देशकालभेदाद्विरोधसमाधिः । शोभाक्रियेति । सैव ह्यत्र परस्परनिमित्तम् । अनाधारमित्यादि। एतदेव व्याचष्टे-इहेत्यादिना । तत्परिहारेणेति । आधारव्यतिरेकेणेत्यर्थः । परिमितमित्यव्यापकम् । व्यापकस्य हि युगपदनेकत्र स्थितिर्वस्तुसंभविनीति तत्र नालंकारत्वम् । किंचिदिति यत्र यादृग्विवक्षितम् । न केवलमारब्धस्य वस्तुनो निष्पत्तिर्यावदसंभाव्यस्यापि वस्त्वन्तरस्येत्यत्र तात्पर्यार्थः । तच्च वस्त्वन्तरं चिकीर्षितं भवत्यचिकीर्षितं वा । एवं च 'फलान्तरस्य निष्पत्तिश्चिकीर्षाविरहेऽपि या । स विशेषश्चिकीर्षायां प्रसङ्गस्तु ततः पृथक् ॥' इत्याधुक्तयुक्त्या प्रसङ्गादन्यार्थः । प्रसङ्ग इति । प्रसङ्गाख्यमलंकारत्वं न वाच्यम् । न हि चिकीर्षितत्वमचिकीर्षितत्वं वा कश्चिद्विच्छित्तिविशेषो येनालंकारान्तरत्वं स्यात् । यावता यत्रासंभाव्यस्य वस्त्वन्तरस्य विच्छित्तिर्विवक्षिता सा चात्र स्थितेति किं चिकीर्षितत्वाचिकीर्षितत्वकल्पनेन । तस्मात् 'अङ्गेषु सान्द्रहरिचन्दनपङ्कचर्चा मार्णालहारवलयादि च पान्थवध्वाः । योऽभूद्दिवा पतिवियोगविषाददम्भो ज्योत्स्नाभिसारपरिकर्म स नक्तमासीत् ॥' इत्यत्र हरिचन्दनचर्चादिना न केवलं पतिवियोगविषाददम्भः कृतो यावदभिसारिकापरिकर्मापि कृतमित्यशक्यवस्त्वन्तरकरणात्मैवायं विशेषः । विशेषाश्चात्र त्रयो न पुनरेकस्त्रिविधः । लक्षणस्य भिन्नत्वात् । उचितस्य तु विशिष्टत्वस्य भावात्रयाणामपि विशेषत्वम् । गिरामत्र कविस्वभावादन्यत्र भावः । शंभोश्च लोकोत्तरवस्तुसंपादनं वास्तवमेवेति विशेषमत्रान्ये न मन्यन्ते । एतावतैव पुनरस्याभावो न वाच्याः । उदाहरणान्तरेष्वस्य संभवात् । तानि तु यथा-'अङ्गानि चन्दनरसादपि शीतलानि चन्द्रातपं वमति बाहुरयं यशोभिः । चालुक्यगोत्रतिलक व वसत्यसौ
१. 'प्रवृत्तिनिमित्तम्' ख. २. 'प्रसंख्यालंकारान्तरं' ख. ३. 'ह्यत्रासद्भावस्य' ख. ४. 'निष्पतिः' ख. ५. 'अङ्गानि-तथा च' इति ख-पुस्तके त्रुटितम्.