________________
अलंकारसर्वस्वम् ।
१३५ द्राक्पर्याप्तकपालसंपुटमितब्रह्माण्डमाण्डोदर
भ्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति ॥' पूर्वत्र नभस आश्रयस्य वैपुल्येऽप्याश्रितानां द्युप्रभृतीनां पारिमित्यं चारुत्वहेतुः । उत्तरत्र तु टांकारध्वनेराश्रितस्य महत्त्वेऽपि ब्रह्माण्डस्याश्रयस्य स्तोकत्वम् ।
परस्परं क्रियाजननेऽन्योन्यम् ।
इहापि विरोधप्रस्ताव एव निर्देशकारणम् । परस्परजननस्य विरुद्धत्वात्। क्रियाद्वारकं यत्र परस्परोत्पादकत्वं न स्वरूपनिबन्धनं स्वरूपस्य तथात्वोक्तिविरोधात् तत्रान्योन्याख्योऽलंकारः । यथा
'कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकपालस्य च निस्तलस्य ।
अन्योन्यशोभाजननाद्बभूव साधारणो भूषणभूष्यभावः ॥' न पुनर्वास्तवम् । तेन चारुत्वाप्रतीतेः । तेन नभसो द्युप्रभृतीनां चान्योन्यापेक्षया वैपुल्यं पारिमित्यं च वास्तवमेवेत्यनुदाहरणमेतत् । तदुदाहरणान्तरमन्वेष्यम् । तत्तु यथा-'रणरणअगुणिअमुजत्तणम्मि तणुई समुद्दगहिरम्मि । मेरुअडवच्छसः तुज्झ हिअए कहं णु ठाई ॥' अत्र हृदयस्य महत्त्वं तन्वाश्च तनुत्वमित्याधाराधेययोरननुरूप्यम् । परस्परमित्यादि । ननु यदि परस्परजननस्य विरुद्धत्वं तत्कथमस्यालंकारत्वमित्याशङ्कयाह-क्रियेत्यादि । क्रियाशब्देनात्र धर्मो लक्ष्यते । अन्यथा-'प्रकाशः कोऽपि कैलासशैलपूर्णेन्दुविम्बयोः । उदियाय तदान्योन्यपटुत्वजननक्रमात् ॥' इत्यादौ गुणात्मकपटुत्वमुखेन परस्परजननेऽप्यव्याप्तिः स्यात् । परस्परोत्पादकत्वमिति । परस्परनिष्पादकत्वमित्यर्थः । एवं चानेन जननस्य क्रियासामान्यात्मककारणार्थत्वं दर्शितम् । तेन-'प्रियतमहृदयं विवेश तन्वी परयुवतिप्रसरापसारणाय । अतिसुभगतया हरन्तु मान्या इति च निजे हृदये निवे. शयन्तम् ॥' इत्यत्र परस्परं हृदयानुप्रवेशस्ताभ्यां कृत इति प्रतीतेः पर्यवसानात्परस्परजंननस्याव्यापकत्वं न वाच्यम् । 'विपर्ययं पूर्वकथाद्भुतस्य चालुक्यभूपालशरश्चकार । पपात यन्नष्टधृतिर्वराहस्त विह्वलाङ्गं वसुधा बभार ॥' इत्यत्र पुनरादिवराहवृत्तान्तवैलक्षण्यमात्रस्य विवक्षितत्वादन्योन्यालंकार एव नास्तीति कस्य व्यापकत्वं वा स्यात् । एवमन्यत्रापि ज्ञेयम् । तथात्वोक्तिविरोधादिति । इतरेतराश्रयदोषलक्षणात् । यदि पुनरत्र विरोधसमाधिर्भवेत्तदालंकारत्वमपि स्यादिति भावः । यथा-'धनेन जायते .
१. 'विरुद्धश्रद्धत्वात्' क. २. 'परस्परोपपादकत्वं' ख. १. 'यदा' क. २. 'जननस्य व्यापकत्वं' ख.