________________
१३४
काव्यमाला। 'उन्नत्यै नमति प्रभुं प्रभुगृहान्द्रष्टुं बहिस्तिष्ठति
खद्रव्यव्ययमातनोति जडधीरागामिवित्ताशया । प्राणान्प्राणितुमेव मुञ्चति रणे क्लिश्नाति भोगेच्छया
सर्व तद्विपरीतमेव कुरुते तृष्णान्धहक्सेवकः ॥' अत्र विपरीतफलनिष्पादनप्रयत्नः सुज्ञानः । आश्रयायिणोरानुरूप्यमधिकम् । विरोधप्रस्तावादिह निर्देशः । अनानुरूप्यस्य विरोधोत्थापकत्वात् । तच्चानानुरूप्यमाश्रयस्य वैपुल्येऽप्याश्रितस्य परिमितत्वाद्वा भवति यद्वाश्रितस्य वैपुल्येऽप्याश्रयस्य परिमितत्वाद्वा स्यात् । क्रमेण यथा
'द्यौरत्र क्वचिदाश्रिता प्रविततं पातालमत्र क्वचि____त्वाप्यत्रैव धरा धराधरजलाधारावधिर्वर्तते । स्फीतस्फीतमहो नभः कियदिदं यस्येत्थमेवंविधै
दूरे पूरणमस्तु शून्यमिति यन्नामापि नास्तं गतम् ॥' 'दोर्दण्डाञ्चितचन्दशेखरधनुर्दण्डावभङ्गोद्यत
ष्टांकारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः ।
तनिष्पत्तये प्रयत्न इति स्थितोऽप्यनयोः स्फुटो भेदस्तथापि ग्रन्थकृता विशेषपरिपोषायैव सूक्ष्मक्षिकागम्यो भेदोऽयमुक्तः । मोचनस्याग्रहणं स्वं फलम् । ग्रहणं पुनः कथं भवतीत्यामुख एवोद्रिक्तत्वेनात्र निषेधप्रतीतिः । अनन्तरं च तनिमित्ता वैपरीत्यप्रतीतिः । अत एव विषमादस्य भेदः । सुज्ञान इति । पूर्वोक्तयुक्त्यैवावगतत्वात्पुनरुदाहरणमस्य लक्ष्ये प्राचुर्यदर्शनार्थम् । एतद्धि ग्रन्थकृतैवाभिनवत्वेनोक्तम्। आश्रयेत्यादि । इहेति विचित्रानन्तरम् । नन्वननुरूपयोः संघटने विषममुक्तमित्याश्रयाश्रयिणोस्तत्त्वे कथमलंकारान्तरत्वमुच्यत इत्याशङ्कागीकारेणैतद्व्याचष्टे-तच्चेत्यादिना । आश्रयस्येत्याधारस्य । आश्रितस्येत्याधेयस्य । अनेनैव चास्य भेदद्वयमप्युक्तम् । एवं च परिमितत्वापरिमितत्वयोः सापे. क्षत्वात्तथाविधवस्तुद्वयसंघटनयैव तदवगमनसिद्धिरित्यत्राधाराधेययोः संघटनेनैवाननुरूपत्व. मवगम्यते । विषमे चानन्यापेक्षत्वेन स्वत एवाननुरूपयोः संघटनमित्यनयोर्महान्भेद इत्यत्र पिण्डार्थः । इत्थम्-'आधाराधेययोर्यत्र संसर्गः स्वाद्विरूपयोः। स स्फुटो विषमो वाच्यमधिकं नाधिकं ततः ॥' इति न वाच्यम् । तच्चाश्रयाश्रयिणोः कविप्रतिभाकल्पितमेव ग्राह्यम्
१. 'सौमनस्याप्रहणः पुनः' ख.