SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ अलंकारसर्वस्वम् । यन्नम्बानां परिणतफलस्फातिरावादनीया यच्चैतस्याः कवलनकलाकोविदः काकलोकः ॥' अत्रानभिरूपाणां निम्बानां काकानां च समागम आशंसितः । आनु रूप्यात्समत्वव्यपदेशः । " १३३ विरोधमूलं विचित्रं लक्षयति स्वविपरीतफलनिष्पत्तये प्रयत्नो विचित्रम् | यस्य हेतोर्यत्फलं तस्य यदा तद्विपरीतं भवति तदा तद्विपरीतफलनिष्पत्त्यर्थं कस्यचित्प्रयत्न उत्साहों विचित्रालंकारः । आश्चर्यप्रतीतिहेतुत्वात् । न चायं प्रथमो विषमालंकारप्रकारः । स्वनिषेधमुखेन वैपरीत्यप्रतीतेः । विपरीतप्रतीत्या तु स्वनिषेधस्तस्य विषयः । यथा - ' तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोकाभरणं प्रसूते' इत्यादि । इह त्वन्यथा प्रतीतिः । यथा— I 'घेत्तुं मुच अहरे अण्णन्तो वल पेक्खिउं दिट्ठी । दुं विहन्ति भुआ रआअ सरअम्भि वीसामो ॥' अत्र मोचनवलनविघटनविश्रमाणां यथाक्रमं ग्रहणप्रेक्षणघटन रेमणानि विपरीतफलानि प्रयत्नविषयत्वेन निबद्धानि । यथा वा पविषयः । द्वितीय इत्यनभिरूपविषयः । आनुरूप्यादित्यौचित्यलक्षणात् । स्वविपरीते - त्यादि । एतदेव व्याचष्टे - यस्येत्यादिना । यदिति प्रसिद्धम् । फलमिति कार्यम् । तस्येति हेतोः । तदिति कार्यम् । प्रयत्नस्य कार्यादिभेदेऽपि न वैचित्र्यमिति तदिह नोतम् । एवं यस्य यत्कार्ये तस्य तावत्तद्विपरीतं न भवति । यदि च तत्त्वं स्यात्तन्निष्पत्त्यर्थं श्व यदि कस्यचित्प्रयत्नः स्यात्तदायमलंकार इत्यत्र तात्पर्यम् । ननु चैतद्विरूपकार्योत्पत्तेः किं न विषममेव भवतीत्याशङ्कयाह - न चायमित्यादि । तस्येति विषमस्य । नीलयापि पाण्डु यशः प्रसूतमिति विपरीतप्रतीतिबलादेतन्नोपपद्यत इति ह्यत्र प्रतीति: । अन्यथेति निषेधबलाद्वैपरीत्यप्रयत्न इति । यद्यपि विषमे विरूपस्य कार्यस्य स्वयमेवोत्पत्तिरिह च । १. 'अनुरूपत्वात् ' क ख २. 'तस्य' क पुस्तके नास्ति ३. 'तदा विचित्रालंकारः ' क. ४. 'मरणानि' ख. 1 १. 'यस्येति' क. २. 'विपरीतप्रतीतेः । यद्यपि विषमे विरूपस्य' ख. ३. 'यद्यपि -तनिष्पत्तये' इति क पुस्तके नास्ति.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy